पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२द्वि०पटछः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०५१ सकमनपुंसकेनेत्येकवद्भावस्य वैकल्पिकत्वादभावः । तेन पाकदानयोरपि संग्रहः । आवश्यकश्वाय संग्रहः । अन्यथा ऋतुसंयुक्तपाकदानयोरपि निषेधापत्तेः । पाकेs. ऋतुसंयुक्तत्वं निषेधे प्रयोनकमेवं दानहोमयोरपि । क्रत्वभ्य इति ऋतुविहिताम्य' इति वा परित्यज्य क्रतुसंयुक्ताभ्य इतिवचनं प्रायश्चित्तार्थपाकदानहोमानामयं निषेधो न भवति, तेषामपि विनष्टसंधानद्वारा ऋतुसंयुक्तत्वादितिज्ञापनार्थम् । ऋतुविहिताम्यः क्रत्वाभ्य इति चैषमुच्यमाने क्रत्वना पाकदानहोमानां निषेधे तोरेवासंभवेन तव्यतिरिक्तविषयत्वस्यैवावश्यमदेवानीकर्तव्ये पर्युदासवैयापत्तेः, प्रायश्चित्तार्थ- पाकदानहोमेषु क्रत्वर्थत्वकतुविहितत्वासंभवेनैतेषां ऋतुसंधानार्थत्वेनाऽऽवश्यकानाम संग्रहापत्तेश्च । अतः प्रायश्चित्तार्थानामेतेषां संग्रहार्यमेवैतादृशं वचनमित्यवश्य स्वीक- तैव्यमेव । संशब्दः पाकदानहोमात्मकेषु विहितेषु प्रायश्चित्तेषु एतेषु एतत्रितयान्य. तमं विना येन नैव निर्वाहस्तदेव भवति । यस्य तु निर्वाहोऽस्ति तन्नैव भवतीति । यथा यत्र प्रायश्चित्ते पाकात्मकं दानात्मक होमात्मकं वा जपाद्यात्मकप्रकारान्तरेण वा विकल्पितं तत्र प्रकारान्तरेणापि दोषनिहरणसंभवान्नैतानि भवन्तीति । प्रात्यहिक देवतार्चनं तु होमसहितं क्रियते चेत्तदा न कांचनाऽऽहुतिं जुहोतीति निषेधाद्धोमर- हितमेव भवति न तु होमसहितम् । आहुतिग्रहणं देवतोशेन द्रव्यप्रक्षेपमात्रस्यो- पलक्षकम् । तेन तर्पणस्य वैश्वदेवस्य चापि निवृत्तिः । आहुतिग्रहणात्समिदाधान- स्याप्रायश्चित्तार्थस्यापि न निषेधः । देवेभ्यः स्वाहा पितृभ्यः स्वधाऽस्तु भूतेभ्यो नम इत्येते एव देवयज्ञपितृयज्ञभूतयज्ञा न तु वैश्वदेवान्तर्भूता एवेति पक्षेऽपि एतेषामपि अक्रतुसंयुक्तत्वान्निषेधः । मनुष्येभ्यो हन्तेति मनुष्ययज्ञोऽपि न मवति । अक्रतुसं. युक्ताहुतिरूपत्वात् । एतदाज्ञयाऽन्यस्य तु भवत्येव । बौधायनप्रायश्चित्तसूत्रेऽन्येऽपि निषेधा- :--न दद्यान्न जुहुयान्न पचेन्न जपेदित्यादित एव विभनेदित्याहु पोऽवगा- हेत न वासो अायान्न वासः प्रप्लावयेदिति । नापोऽवगाहेतेत्यनेन वारुणस्नानं व्याव- त्यते न तु आग्नेयादिस्नानानि व्यावयन्ते । ब्रह्मयज्ञोऽपि न भवति । यहचोऽधीते पयआहुतिमिरेव तद्देवाशस्तर्पयतीत्याद्यर्थवादेनाध्ययनरूपत्वेऽपि भाहुतिरूपत्वप्रति- पादनात् , यज्ञशब्दाच । धारणाध्ययनमपि न हेमाद्रौ स्मृत्यन्तरे यज्ञे चानूबन्ध्यान्तं दीक्षितस्यविनां चेति अनध्यायोक्तेः । औपासनहोमस्थालीपाकपार्वणश्राद्धाष्टकाश्र- वणाकर्मप्रत्यवरोहणादीनां नित्यानां नैमित्तिकानां मासिकादीनां चौलोपनयनादीनां संस्काराणां च निवृत्तिः । न गर्भिणी दीक्षतेतिनिषेधादेव पुंसवनसीमन्तादीनां जाते- टेश्च निवृत्तिः सिद्धैव । यत्तु बौधायनप्रायश्चित्तसूत्रे- 1-अथ सूतिकायां दशाहे पर्य- येते यथाम्नातर शौचं कृत्वा पत्नी कर्मसु योजयेत्तत्कर्म पुत्रो ब्रह्मचारी वा कुर्यात्त- मन्त्रान्यजमानो नपेविति, तत्कर्मणि सूतिकात्वे द्रष्टव्यम् । एतस्थ संवत्सरसाध्य- सत्रे संभवो ज्ञेयः । न कांचनाऽऽहुति जुहोत्यन्यत्र कतुसंयुक्ताम्य इत्यनेनानिहो.