पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५० सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्र- साधुशब्दैरेव भाषेत नान्यरित्यर्थः । श्रुतिरप्यत्रास्ति प्रमाण- तस्माद्ब्राह्मणेन न म्लेच्छवाचा भाषितव्यं म्लेच्छो ह वा एष यदपशब्द इति । अपशब्दरूपाभिदेशभा- षाभिदीक्षितेन न माषितव्यमिति निष्कृष्टोऽर्थः । लौकिकवाग्वदने प्रायश्चित्तं सामा- न्यमेव जानपत्यात्मकम् । देवतानामधेयेषु न विचक्षणचनसितशब्दौ किंतु मानु- पनामधेयेष्वेष । तथा च बौधायनः-यानि देवतानामानि यथाख्यातं तान्याचक्ष्वाथ यान्यदेवतानामानि यथाख्यातं तान्याचक्षाण उपरिष्टाद्विचक्षणं धेहोति । अदेवता- नामानि मनुष्याणां रित्यादीनि न तु कृष्णगणेशशिवमास्करादीनि तेषां देवतानाम. धेयत्वात् । बोधायनेन लौकिकवाग्माषणेऽपि चनसितविचक्षणप्रयोग उक्तः- चन- सितवीं विचक्षणवर्ती वाचं वदेदिति । मतुवयाद्यथायथं प्रयोगः प्रथमस्याऽऽदौ द्वितीयस्योत्तरमिति । अथवाऽयमर्थः सूत्रस्य लौकिकी मानुषी वाचं, वरिष्यन्नामधे- येषु च विचक्षणमन्ततश्चनसितं दधाति यथाक्रम लौकिकी वाचं वदिष्यन्विचक्षणश- ब्दमादौ दधाति नामधेयेषु अन्ततोऽन्ते चनसितं दधातीत्येवमिति । अथवोभयत्रापि 'उभयस्य समुच्चयः । तत्र वाग्विषय आदावुभयोः समुच्चयो नामधेयविषयेऽन्तत उभयोः समुच्चय इति । विचक्षणं चनसितमिति प्रातिपदिकनिर्देशो न विभक्तिर्विव- सिता । लौकिकं भाषणं कर्तुमादौ विचक्षणचनासतेत्युक्त्वा लौकिकं भाषणं यथा. स्वेच्छे कुर्यात् । डिस्थविचक्षणचनातितेत्याबानार्थे संबोधनवाक्यप्रयोगः । चनसित- विचक्षणेत्यामन्त्रयेतेति भारद्वाजः ।

न पचति न ददाति न कांचनाऽऽहुतिं जुहोत्यन्यत्र क्रतुसंयुक्ताभ्यः ।

अक्रतुसंयुक्तं पाकं न करोतीत्यर्थः । तच्चाऽऽतिथ्याद्यर्थम् । अन्येन पाचने न दोषः । नास्य ब्राह्मणोऽनाश्वान्गृहे वसेदित्यनेन निषेधेन वसत्यर्थे ब्राह्मण आगते तस्य सत्यां भोजनेच्छायामनं दद्यादेवेति तदर्थ पाकः प्राप्तः। तत्र स्वयं पाक कृत्वाड- तिथये मोजने दत्त आयासविशेषेण फलेऽतिशयात्स्वस्यापि पाककर्तृत्वं प्राप्तं तदनेन निषिध्यते । न ददाति अक्रतुसंयुक्तं दानं न करोतीत्यर्थः ।

ईजे यज्ञैश्चन्द्रसेनो भूर्यन्नैर्भूरिदक्षिणैः ।

इति पुराणेऽन्नदानदर्शनात् , अनिरादिश्य न भुञ्जत इत्येतस्मात्सूत्रालिङ्गाचा- नदानं भवत्येव । न कांचनाऽऽहुति जुहोति कामपि आहुति न जुहोति । कथंभूतां ऋतुसंयुक्ताभ्योऽन्यत्र विहिताम् । ऋतुसंयुक्ताम्य इत्यत्रैकशेषः । क्रतुसंयुक्तश्च क्रतु. संयुक्तं च ऋतुसंयुक्ता च क्रतुसंयुक्ताः । तल्लक्षणविशेषत्वाभावानात्र पुशेषः । नपुं. kabala च. होत्यन्यत्र क्रतुसंयुक्ताभ्यः का।