पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

o [२द्वि० पटला] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०४९ इतिलक्षणलक्षितां वदेत् । नमस्कारं वा कुर्याद्यथायोग्यम् । नाभिवादयत इत्यय निषेधो वृद्धत्वेऽपि स्वेन प्रथममभिवादनं न कर्तव्यं तैः कृते पश्चात्कर्तव्यमिति पिण्डि- तोऽर्थः । एवकारस्थाभिषदेदित्यनन्तरमन्वयः । आपस्तम्बः-अग्नि दीक्षितस्तस्मादेने नोपस्पृशेनचास्य नाम गृहोयादिति । अन्यस्थ विधिरयम् । अस्य दीक्षितस्य न भाम गृह्णीयाकि तु मो इत्यादिभिः पूजाशब्देरामन्त्रणमात्रं कर्तव्यमिति । स्पर्शने प्रत्यक्षदोषो न नामग्रहणे । अग्निसंस्तवो न स्पर्शनमात्रे हेतुः किंतु अभिवाधेरप्यय. मभिवाद्यस्तेभ्योऽभिवायेभ्योऽपि स्वेनाऽऽशिषो देया इत्यत्रापि । अत एवामिवदति माभिवादयतेऽप्याचार्य श्वशुर५ राजानमिति शाव्यायनकमित्यस्यानन्तरमुपादानम् । अयं निषेध ऋविनामपि विधिव्यतिरिक्तस्पर्शविषये ।

यद्येनꣳ शूद्रेण संभाषोपेयादेतेषां वर्णानामेकं ब्रूयादिममित्थं विचक्ष्वेति ।

एनं दीक्षितं प्रति शूद्रेण सह संभाषा संवाद उपेयादुपपद्येत । एतेषां शव्यतिरिक्तानामनन्तरोपात्तानां ब्राह्मणराजन्यवैश्यानाम् । यद्यपि वर्णशब्दो ब्राह्मणक्षत्रिय वैश्यशूद्रेषु वर्तते ब्राह्मक्षत्रियपिट्शूद्रा वर्णास्त्वाद्यास्त्रयो द्विनाः । इति याज्ञवल्क्योक्तेः, [तथाऽपिं] शूद्वात्मकवर्णस्य निषेधकोटिकत्वे तच्छब्देन तस्य ग्रहणासंभषाहामणक्षत्रियवैश्यानामेव ग्रहणम् । यद्यावश्यकः संवाद उपपद्येत तदा ब्राह्मणरामन्यवैश्यानां मध्य एकमन्यतमं यं कंचन वर्ण पुरस्कृत्य संवादयेत् , इममित्थं विचक्ष्वेतीमं शुढे प्रतीत्थमनेन प्रकारेण विचक्ष्व ब्रूहीति ।

लौकिकीं वाचं वदन्नामधेयेषु विचक्षणं चनसितं चान्ततो दधाति ।

लौकिकी भावारूपां वाचं वदन्वदिप्यन्वक्तुमद्युक्त इत्यर्थः । वर्तमानसामीप्ये वर्त- मानवदपि कपिलवतीति तदर्थ यानि आह्वानाद्यर्थानि नामधेयानि तेषु विचक्षण- चनसितेपेतहमन्ततो नामधेयान्ते दधाति योजयति । चकारादुभयोः प्रतिनामधेर्य समुच्चयो पवा देवदत्त विचक्षणचनसितेति । विशेषमाहाऽऽपस्तम्बः-चनसितवि- चक्षणेति राजन्यवैश्याविति । यथायथं राजन्यवैश्ययोरेतौ भवत इत्यर्थः । ब्राह्मणस्य तुभयोः समुच्चय एव । लौकिकी वाचं वदन्नित्यनेन लौकिकवाग्भाषणस्य गौणता गम्यते । तेन मुख्यत्वेन संस्कृतवागेव वक्तव्या, तस्या वक्तुमशक्यत्वे लौकिकीति सिद्धं भवति । तथा चाऽऽास्तम्बः-परिणयेन मानुषी वाचं वदतीति । परितः सर्वेषु देशप्वेकरूपो नीयत इति परिणयः साधुशनस्तेन लौकिकार्थामपि वाचं वदन्ति ।