पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४८ सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्रभे- बहवः शूद्राः स्त्रियश्चापि न प्रपद्येयुरिति । शृदसंभाषणविषये कंचित्प्रतिप्रसवमाहाss- पस्तम्बः-काम शूद्रेण संभाषेत यः पापेन कर्मणाऽनाभिलषितः स्यादिति शाट्यायनक- मिति । यस्त्वगम्यागमनस्तेयादिदोषाश्रयतया न श्रुतो निश्चित इति यावत्तेन कामं संभाषतेत्यर्थः । शूद्रग्रहणं स्त्रयुपलक्षणम् । प्रतिलोमानां तु जन्मनैव पापामिलषित- त्वान्नभिः सह माषणम् । लघुपापाभिलषितेन न संभाषणं निषिद्धम् । ननु ब्राह्मणा- दिभिरप्यशुचिमिः संभाषणं स्मृतिनिषिद्धं शूद्रस्य को विशेष इति चेत् । उच्यते-- पापानभिलषितैः सद्धि मणादिमिः संभाषणं कर्मान्तराले विहितं यथा भारतादि- श्रवणम्, . . अहःशेष समासीत शिष्टैरिष्टैश्च संयुतः । इति च, तथा न शूद्रेण शिष्टेन चापि विधीयते ।

न कंचन प्रत्युत्तिष्ठति ।

कमपि शिष्टं पित्रादि गुरुं वृद्धं ज्ञानिनं चापि समागतं दृष्ट्वा न प्रत्युत्थानं कुर्यात् । स्मृतितः प्राप्तस्य निषेधः क्रियते ।

नाभिवादयते ।

पितरं मातरं चैव पितामहं पितामहीम् । प्रपितामहतत्परन्यौ मातामहं च तस्त्रियम् ॥ पितृव्यं मातुलं चैव भ्रातरं श्वशुरं तथा । आचार्यमुपनेतारमन्नदातारमेव च ।। उपाध्यायं नीतिशास्त्रप्रवक्तारं तथैव च । भयघातारमाप्तं च ऋत्विजं वृद्धमेव च ॥ विद्याविनयसंपन्नं ज्ञानिन चाभिवादयेत् । इत्यादिस्मृतिप्राप्तानमिवाद्या समस्कार्यानाभिवादयेन्न नमस्कुर्यादित्यर्थः । आप- स्तम्बः-अभिवदति नाभिवादयतेऽप्याचार्य श्वशुरं राजानमिति शाट्यायनकमिति । अन्यैरभिवादितस्तेम्य आशिष वदति न स्वयम् , आचार्यादीन्समागतानपि नाभिवा- दयते किं पुनरन्यान् । राजाभिवादननिषेधो राज्ञो ब्राह्मणस्याप्रसक्तेः । आपस्तम्बो- । क्ताचार्यादि पदसममिव्वाहारानमस्कार एवात्राभिवादनशब्दार्थः ।

सर्व एवैनमभिवादयेरन्सर्वानेवाभिवदेत् ।

एनं दीक्षित सर्व एतस्यामिवाद्याः पित्राद्या अन्ये चाभिवादयेरन् । अनमिवा- द्यत्वेऽपि तस्य सर्वांस्तानभिवदेसवान्प्रति आशिषम् । आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नानोऽन्ते वाच्यः पूर्वाक्षरे प्लुतः ॥