पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०४७ त्येवापठापस्तम्बः । उपह्त्योद्धत्य खनिवेति यावत् । तेन पतितस्य लोष्टस्य तृणा- दिकस्य वा न ग्रहणम् । तदुपहतम् । उत्तरत्र प्रतिनिधानादेवाऽऽदाने सिद्ध आदा- येतिवचनं तदादायैव मूत्रप्रश्नावः कर्तव्य इति । प्रनावयति मूत्र चिकीर्षन्निति पूर्वत्र तस्यैवोपक्रमात् , योग्यत्वाच मूत्रस्यैव प्रस्रावणम् । प्रस्त्रावणेन्द्रियशुद्धिं कृत्वा हस्त. पादप्रक्षालनाचमनानि कार्याणीति स्मृतिसिद्धम् । अप उपस्पृश्य, अपः स्पृष्ट्वा, आचम्य श्रौतमाचमनं कृत्वेत्यर्थः । अप उपस्पृश्याऽऽचम्येति द्वयोर्भे विना पृथान- हणानुपपत्तेरुपस्पर्शशब्देन स्पर्शमात्रं न तु उपस्पर्शस्त्वाचमनमितिकोशोक्त आचमन- शब्दार्थों ग्राह्य इति । उदककायें प्रोक्षणाचमनादौ कुत्रचिदपशब्द उपादीयते कुत्र. चिन्नोपादीयते तत्र बीजमिदं यत्रोपादीयते तत्रोत्पवनादिसंस्काराभावो यत्र नोपा- दीयते तत्र संस्कारसत्त्वमिति । पृथिव्या संभवेति तदपात्तं लोष्टं तृणादिकं च यतोऽ. पात्तं तत्रैव पुननिदधाति पृथिव्याः संमवेति वा । अनुनासिकविसर्गकृतो मन्त्रमे। दोऽत्र । लोष्टादानोत्तरमेव कर्णे यज्ञोपवीतधारणादि । आदानात्पूर्व धारणं तु यज्ञो. पवीती कर्म कुर्वीतेतिशास्त्रविरोधापत्तेर्ने युक्तम् । नचैवमादायेतिल्यब्बोधितादानमूत्रप्र. नावयोरव्यवहितानन्तर्यवाधापत्तिः । अत्राव्यवहितत्वस्याविवक्षणात् । कर्णे यज्ञो- पवीतधारणस्यापि मूत्रपुरीपोत्सर्गानुगुणत्वेनाव्यवधायकत्वाच्च । आचमनं तु मुष्टय. नुरोधेन कथचिदाचमनविधानात् । आचमनार्थ मुष्टिविसर्गे दोषो नेति केचित् । अस्तीत्यन्ये । शौचविधिस्तु मुष्टिं विसृज्यैव कर्तव्यः । तत्र न प्रायश्चित्तमिति केचित् । तदनन्तरं मुष्टिविसर्गप्रायश्चित्तं कृत्वा पुनर्मन्त्रेण मुष्टिकरणमित्यन्ये । दण्डकृष्णानिने निधायैव मूत्रपुरीषे कर्तव्ये । तथाचाऽऽपस्तम्बः-न दण्डात्कृष्णा- जिनादिति विप्रच्छियेतो निधाय मूत्रपुरीषे कुर्यादिति ।

नैनꣳ शूद्रोऽनुपविशति ।

एन दीक्षितं प्रति शूद्रो नानुप्रविशति न प्रतिपद्यते । अनुरत्रानुलक्षीकरणपूर्वकप्रवे. शनिषेधार्थः । तेन साहजि(सि)कप्रवेशे निषेधो नेत्यर्थीदवगतं भवति ।

ब्राह्मणेन राजन्येन वैश्येन वा संभाषेत ।

एतैः सम्यगपि भाषेतेत्यर्थः । परिगणनास्त्रीशुदाम्यां सह संभाषणस्यान्निषेधः सिद्धो भवति । सर्वमेतत्स्पष्टमाहाऽऽपस्तम्बः-न स्त्रिया शूद्रेण संमाषेत नैनमनुप्रप- येतेति । स्त्रिया त्वशूद्रयाऽपि न संभाषेत । बहूपकारमोहादपि नैनं शूद्रमनुगच्छेत् । एनं यनमानं शूदो नानुप्रपद्यतेत्यर्थो वेत्यापस्तम्बसूत्रार्थः। नैनमनुप्रपद्यतेत्यस्य द्वितीयोऽर्थोऽस्मत्सूत्रानुगुणः । मात्रादिभिर्मान्यामिः सह सम्यग्भाषणेऽपि न दोषः । भारतादिषु दर्शनात् । संशब्दात्सम्यग्माषणस्यैव निषेधः । तेन कार्यार्थ स्वल्पभाषणे न दोष इति सिद्धं भवति। शूद् इत्येकवचनं लिङ्गं चाविवक्षितमुद्देश्यगतत्वात् । तेन