पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२द्वि०पटलः] गोपीनाथभट्टकृतज्योत्माब्याख्यासमेतम् । १०४५ तदस्मान्मा हिसीनहि तद्ददृशे दिवेति स्वप्नेऽन्नं भुक्त्वा रुद्रियाभ्योऽभ्यः स्वाहेति लोहितमुत्पतितं दृष्ट्वा बीभत्सा नाम स्थाऽऽपः स्वाहाकृताः पृथिवीमाविशतेति स्तूहानं कृपाणा नाम त्यश्रु तपस्या ना० स्वेदमिति । जपतीत्येव शेषो न स्वनुमन्नयस इत्य- स्यानुवृत्तिः । स्वप्नेऽन्नं भुक्त्वेत्यत्र स्वाप्तिकस्य पदार्थस्य जामशायामसंभवे तदनुमन्त्र- णासंभवात् । एकत्र व्यभिचारेण सर्वत्रापि जपतीत्ययमेव शेषः। स्तूहानमित्यादि- ध्वपि दृष्ट्वेतिपदस्याप्यन्वयः । अश्रु दुःख जमानन्दनं चैत्युभयमपि गृह्यते । अवि- शेषात् । अग्नये व्रतभृतेऽष्टाकपालं व आहिताग्निरार्तिममश्रु कुर्यादित्यस्यानैमित्ति- कत्वान्नैमित्तिकस्य नित्यतुल्यत्वान्न कांचनाऽऽहुति जुहोत्यन्यत्र ऋतुसंयुक्ताभ्य इत्यनेन ऋतूपयोगिव्यतिरिक्ताहुतेनिषेधाज्ञातभृतीष्टे निषेध इति केचित् । नैतद्युक्तम् । एतस्याः प्रायश्चित्तप्रकरणे पाठापाविकृतींष्टिवदापनिर्धातार्थत्वेन क्रतुसंयुक्तत्वात् । नहि दोषनिहरणं विनाऽग्रिम कर्म संभवति । अत इयमिष्टिर्भवत्येव पूर्णाहुतिति । स्तूहानं नासास्त्रुते जले श्लेष्मादि । अनु नेत्रस्नुतं जलं, स्वेदः शरीरज जलम् । भर. द्वाजः-नापरया द्वारा निष्कामेधदि निष्क्रामेत्तेनैव प्रविश्येदं विष्णुरिति अपेदिति । आपस्तम्बः-न पुरा नक्षत्रेभ्यो वाचं विसृभेद्यदि विसृदिदं विष्णुस्त्वमझे ब्रतपा असीति जपित्वा वाचं यच्छतीति । न पुरा नक्षत्रेभ्यो वाचं विसृजेदित्यनुवादः प्राय- श्चित्तविधानार्थः । वाग्यतस्तपस्तप्यमान आस्त आ नक्षत्रस्योदेतोरिति पूर्वमवोक्तत्वात्। श्रुतौ तु न पुरा नक्षत्रेभ्यो वाचं विसृजेद्यत्पुरा नक्षत्रेभ्यो वाचं विसृजेद्यहं विच्छि- न्यादिति दोष प्रदर्य नक्षत्रोदयोत्तरं वाग्विसर्ग कर्तुं तद्विधिमुक्त्वा यदि विमृजद्वैष्ण- वीमृत्रमनुब्रूयाद्यज्ञो वै विष्णुर्यज्ञेनैव यज्ञ संतनोतीति केवलं वैष्णव्यूग्जपमात्र प्रायश्चि- त्तमुक्तम् । प्रातस्तु त्वमग्ने व्रतपा भसीत्यनुयायद्यदीक्षितवादं वदेन्मुष्टी वाचं च विसर्जयित्वेति वक्ष्यमाणं प्रायश्चित्तं द्रष्टव्यम् । आपस्तम्नः-म दीक्षितवसनं परिद- धीत नास्य पापं कीर्तयेदिति । अदीक्षितानामपि निषेधादोक्षार्थवासस्तेन त्यक्तं न परिदधीत कश्चिदपि, नास्य सन्तमप्तन्तं वा दोषं कतियोदित्यर्थः ।

नक्तमेव मूत्रपुरीषे कुर्याद्दिवा वा छायायाम् ।

नक्तं रात्रावेव मूत्रपुरीपोत्सर्ग कुर्यात् । म दिवा । यदि निरोढुं न शक्नुयात्तमा दिवाऽपि कुर्यात् । परं तु छायायां कुर्यात् । अत्रेदं धर्मसूत्रम् --आराचाऽऽवसथा- न्मूत्रपुरीपे कुर्यादक्षिणां दिशं दक्षिणापरां वा आमादावसथाद्वाऽस्तमिते च बहिनोमा- न्मूत्रपुरीषयोः कर्म वर्जयेदश्मानं लोष्टमानोषधिवनस्पतीन/नाच्छिद्य मूत्रपुरोषयोः शुन्धने वर्जयेद्देवतानामभिधानं चाप्रयत इति । पराशर:-ततः प्रातः समुत्थाय कुर्याद्विण्मूत्रमेव च । नैऋत्यामिषुविक्षेपमतीत्याम्यधिकं भुवः ।। T १३२