पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२द्विः पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०४३

नाऽऽनतौ स्मयेतापिगृह्य स्मयेत् ।

आनती केनचिद्धास्यकारणेन हास्यप्राप्तावपि नैव स्मयेत नेषद्धास्यमाप कुर्यात् । स्मिन्, ईषद्धसन इत्यस्माद्धातोनिष्पन्नः स्मयशब्दः । ईषद्धास्यनिषेधेन कैमुतिकन्यायेन कखरूपस्य हास्यस्यापि सुतरां निषेधः । अकारणहास्यस्य तु धर्मशास्त्रादेव निषेध- सिद्धिः । यदीपद्धास्यमपि निरोढुं न शक्यते तदा स्मयतैव परं तु अपिगृह्य वनेण मुखमाच्छाद्यैव स्मयेत । एतत्फलं श्रुतौ कृष्णविषाणया कण्ड्यतेऽपिगृह्य स्मयते प्रजानां गोपीथायेति । गोपीया रक्षणम् । उणादिसूत्रेषु निपातनात्साधुः । प्रवयं- ब्राह्मणे फलान्तरमपि-तस्माद्दौक्षितेनापिगृह्य स्मेतव्यम् । तेजसो धृत्या इति । एते निषेधाः पल्या अपि । तस्येति ज्ञापकात् । पत्न्या. वाग्यमनलोपे विष्णुस्मरणमेव प्रायश्चित्तम् । यदि वाग्यमलोप स्थाजपादिषु कथंचन । व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् । इति सामान्यवचनात् । उपायान्तरसत्त्वे मन्त्रपाठकल्पनायोगात् । अबद्धं मन उन्दतीर्बलं धत्तेति जो तु न भवतः । यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्य जपाश्चेति सूत्रात् । नचैवं नखनिकृन्तनदन्तधावनस्नानवासःपरिधानाशनाभ्याञ्जनपावनादीनामप्यमावोऽस्त्विति वाच्यम् । तस्यैष एव संचर आसृत्याया इत्यत्रत्यतच्छब्दस्यतेषां धर्माणां प्रापणार्थ- मेव कृतत्वात् । अन्यथा तद्वैयथ्यस्य दुष्परिहार्यत्वापत्तेः । नच वैयर्थ्यपरिहारार्थ- मुपायान्तरमेव किंचित्कल्पनीयमिति वाच्यम् । एतत्कल्पनातिरिक्तायाः सूत्रान्तरानु- गुणार्थकल्पनाया एवासंभवात् । तूष्णीपक्ष इदम् । उहपक्षे तु स्नानमन्त्रे पूतैमीत्यूहः । उहपक्ष एतावपि जपो भवत एव । जपामावपक्षे प्रायश्चित्तं तु विष्णुस्मरणमिति द्रष्टव्यम् ।

अबद्धं मन इत्यमेध्यं दृष्ट्वा जपति ।

अमेध्यमशुचि मलमूत्रादि पतितचण्डालरजस्वलादि च दृष्ट्वा अपति कालाव्यवाये सत्यसकृद्दृष्ट्वाऽपि सकृदेव जपति । कालव्यवाये तु पृथगेव मन्त्रः । सर्वेषामेकाम. नेव काळे युगपदर्शने सकृदेव जपति । स्वप्ननदीतरणाभिवर्षणाभिमेध्यप्रतिमन्त्रणेषु चैवमिति एकादशाध्याय चतुर्थपादगते सूत्रे स्वप्ननदोतरणाभिवर्षणेषु कालभेदेऽपि नाऽऽवृत्तिः । अमेध्यप्रतिमन्त्रणे तु एकस्मिन्काल एवं युगपदनेकामेध्यदर्शने कालमे. दामावाद्विस्पष्ट आवृत्तेरभाव इनि विशेषो द्रष्टव्यः । अमेध्यप्रतिमन्त्रणे दर्शनस्यैव निमित्तत्वात्कालभेदेनामेध्यदर्शन आवृत्तिरेव मीमांसकमतेऽपि । एवमित्यनेन कण्डुय- नाधिकरणसिद्धान्तार्थोऽतिदिश्यते । सूत्रार्थस्तु स्पष्ट एव । आचमनादित्यावेक्षणयोः स्मृतिप्राप्तयोः समुच्चय इति केचित् । मा मा हासीरिति मन्त्रान्तः ।