पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४० सत्याषाढविरचितं श्रौतसूत्रं- [१ दशमप्रभे- अतीत्यत्र चतस्र इति स्त्रीलिङ्गात् । एष्ट्रीः स्थेतिमप्रगतस्त्रीलिङ्गाच्चैवाङ्गुलिमहणे सिद्धेऽङ्गुलिग्रहणं दश हत्या अगुलयो दश पाद्या इति श्रुतावङ्गुलित्वेनाङ्गुष्ठ- महणेऽपि यदि काम येतोभयं जनयमित्यभीव लोमान्यङ्गुष्ठं महाङ्गुलिभिगृह्णीयादि स्यत्राङ्गुष्ठस्य पृथग्रहणदर्शनानाङ्गुलिष्वङ्गुष्ठग्रहणमिति प्रदर्शयितुम् । एतेनाङ्गुष्ठत- जन्योरुत्सर्गो वाजसनेय्युक्तो निरस्तो द्रष्टव्यः । वाचं च यच्छतीत्यत्रत्यश्वकारोऽगु- लिकरणेन सह संनियोगशिष्टत्वार्थः । तेन मुष्टिकरणकर्तुरेव वानियम इति तथा च पत्न्या न वाग्यमनम् । वाग्यमलोपप्रायश्चित्तमाह-

यदि प्रमत्तो व्याहरेद्वैष्णवीमाग्नावैष्णवीꣳ सारस्वतीं बार्हस्पत्यामित्यनूच्य व्याहृतीश्च पुनर्वाचं यच्छति ।

यदीत्यनेन नैमित्तिकत्वं प्रदर्यते । प्रमत्तः प्रमादतो व्याहरेद्राचमुच्चारयेत् । वुझ्या प्रमत्ततावशेन व्याहरणे तु द्विवारं त्रिवारं तेषां मन्त्राणां जप इति स्वार्थिकम् । यदा तु प्रमत्त इत्यस्य उन्मत्त इत्येवार्थ इत्युच्यते तदैतेषां मन्त्राणां सकृदेव जपः । प्रमा. देन व्याहरणे तु- यदि वाग्यमलोपः स्याजपादिषु कथंचन । व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम् ॥ इतिस्मृत्युक्तं ग्राह्यमिति । अयं च वागुच्चारणनिषेधो यज्ञसाधनव्यतिरिक्तविषये । तथा चाऽऽश्वलायनः-आपद्यातो देवा अवन्तु न इति जपेदपि वाऽन्यां वैष्णवी- मिति । अन्यधज्ञस्य साधनादिति चाऽऽह । आपद्य नियममतिक्रम्य । यज्ञसाधनमिति वचसो विशेषणम् । यज्ञसाधनं वचो यद्यज्ञसंपादनार्थ तशेषपरिहारार्थ च सत् । एतद्ध्यतिरिक्तवचसो यमनमित्यर्थः । वैष्णवी, इदं विष्णुरिति प्रसिद्धा । अग्नाविष्णू महि तद्वामित्यनुवाकस्याऽऽद्ययोरन्यतराऽऽग्नावैष्णवी । ततः परयोः प्र णो देवी, आ नो दिव इत्यनयोरन्यतरा सारस्वती । ततः परासां बृहस्पते जुषस्व न एवा पित्रे बृहस्पते अतीत्येतासां तिमृणामन्यतरा बार्हस्पत्या । इतिशब्दः प्रकारार्थः । तेनाना- ज्ञातादिमन्त्रत्रयपाठः सिद्धो भवति । अनुरत्र मन्त्रपाठात्पूर्वमेव वाग्यमलोपत्रायश्चि- त्तार्था एते मन्त्रा इत्यनुसंधानार्थः । नचैतदनुसंधानं मन्त्रपाठकाल एवास्त्विति वाच्यम् । मन्त्रार्थीनुसंधानावरुद्धरवेनैतदनुसंधानासंभवात् । अनुसंधानस्य ज्ञानरूपत्वेनककाले ज्ञान- द्वयानुत्पादात् । अथवाऽनुरचैतेषां मन्त्राणामनुवचनरूपता दर्शयितुम् । तेनैकश्रुत्यमेव भवति । जपित्वेत्येवं वचनामावान्न चातुस्वयंनियमः। चातुस्वर्यनियमाभावार्थमेव जपित्वेति- वचनं परित्यज्यान्च्येतिवचनम्। व्याहृतीः समस्ता ब्यस्ता वा । एकैकशः समस्ताभिश्चेति