पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. [२द्वि पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०३९ को ब्रह्मात्मानिलार्काग्निचित्रारियमकेतुपु । विष्णुवाहनशब्देऽब्धौ सितकर्णे वसौ धुतौ । कलहे कः समाख्यातः प्रश्भेऽर्थेऽपि च को मतः । स्वर्गे चक्रे तथा मित्रे शुद्धयर्थे स्मरकालयोः ॥ इति । सर्वेषु देवेषु स्वर्गेशत्वं तु त्रिदिवेशपदादिव केशपदादपि सिध्यति । एकवचनं जात्यभिप्रायम् । दीक्षायां नियमत्रतादिरूपायां जपत्वासंभवेन तत्साधनीभूतमत्रवा- चित्वं लक्षणया स्वीकार्यम् । केशा दीक्षाग्राहिणोऽन्यादयो देवा यस्यां सन्ति यरसाधनी. भूतमन्त्रेषु प्रतिपाद्यत्वेन सन्तीति यावत्सा केशिनीति निष्कृष्टोऽर्थः । केशिनीदीक्षा. नपात्पूर्वमध्वर्युः पृथिवी दीक्षा तयाऽग्निदिक्षया दीक्षितो ययाऽग्निर्दीतया दीक्षित- स्तया त्वा दीक्षया दीक्षयामीत्यारम्य तास्त्वा दीक्षमाणमनु दीक्षन्तामित्यन्तं यजमान- मीक्षमाण आच्छिद्रिकप्रपाठकस्थमन्त्रजातं जपति । युष्मच्छब्दप्रयोगादध्वयोर्नपोऽयम् । केशिनी दीक्षां जपित्वेति ल्यप्तमानकर्तकत्वार्थो यो मुष्टिकरणकर्ता स एव अपक- तेति । तेन मुष्टिकरणस्य यजमानेनैव कर्तव्यत्वाजपोऽपि तेनेव कर्तव्य इति सिद्धं भवति । तथा च पत्न्याः कर्तृत्व वारितं भवति । मुष्टिकरणं यजमानकर्तकमेवेत्यत्र मूलं ताभिर्यथासुखं चरति वाचं च यच्छतीत्यत्रत्यश्चकार इत्यग्रे वक्ष्यते । द्वे अङ्गुली नि । जतीति सामान्यतो यद्यप्युक्तं तथाऽप्यङ्गुलिद्वयं द्वयोर्द्वयोर्हस्तयोद्रष्टव्यम् । एवमुत्तरा- स्वपि । आदौ कनिष्टिकाद्वयं ततोऽनामिकाद्वयं ततो मध्यमाद्वयं ततो द्वयोहस्तयोर्मु- ष्टीकरणमित्येवं क्रमः । न च दक्षिणस्य हस्तस्यैव द्वे अङ्गुली कनिष्ठिकानामिके प्रथम ततो मध्यमातर्जन्यौ ततः सव्यस्य हस्तस्य कनिष्ठिकानामिके ततो द्वयोर्हस्तयोर्मुष्टी- करणमित्येवमेवास्त्विति वाच्यम् । समं स्यादश्रुतत्वादितिन्यायविरुद्धस्यैतादृशानुष्ठान- स्यानुचितत्वात् । निर्भुजति संभुग्ने करोतीति यावत् । संभुग्नता द्वयोर्द्वयोरङ्गुरुयोर्युगप. युगपदेव । संभुग्नामिः सर्वाभिरङ्गुलिभिः सहाङ्गुष्ठसंयोगो मुष्टिस्तत्करणं तत्संपादनम् । एतेनार्थात्तर्जन्योरपि संभुग्नता प्रदर्शिता भवति । अन्यथा तद्विना मुष्टिकरणविधिरनु- पपन्नः स्यात् । मुष्टी इति द्विवचनम् । पदकारैः प्रग्रहत्वबोधकेतिकरणात् । तेन द्वयो- ईस्तयोर्मुष्टिकरणम् । एष्ट्रीः स्थेति सौत्रो मन्त्रः । द्वयोर्हस्तयोर्ते द्वे एवं चतस्रो न तु एकस्यैव । अन्यथा मुष्टी वाचं च विसर्जयित्वेत्यग्रे मुष्टिद्वयविसर्जनविधानानुपपत्तेः । आपस्तम्बेन द्वे अन्यतरतो वे अन्यतरत इति स्पष्ट मभिधानाच्च । 'उत्सर्गोऽपि युगप- देव । एष्ट्रोः स्थेति वहुवचनात् । ताभिरुत्सृष्टामिः । यथासुखमिति वचनाद्याभिरुत्सू. टामिः सुखेनाऽऽचमनादि कार्य कर्तुं शक्यते ता उत्स्रष्टव्या इति । तास्तु कनिष्ठिके अनामिके चैव । कनिष्ठानाभिकयोरनुत्सर्ग एताम्यां साकमङ्गुष्ठसंयोगः पीडावह इत्य. नुभवसिद्धम् । अतः कनिष्ठे अनामिके इत्येतासामेव चतसृणामुत्सर्गः । अङ्गुलीरुत्स-