पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Y [२द्वि०पटलः] गोपीनाथभकृतज्योत्स्नाब्याख्यासमेतम् । १०३७ कर्म यत्र तदेककर्म तस्य भाव ऐककम्यं तस्माद्धेतोः । एककर्मेति कण्डूयनविशेष- णम् । कण्ड्यनान्यङ्गभेदेन भिन्नानि न भवन्ति । यदाऽङ्गासंस्कारः कण्ड्यनं भवेत्तदा तद्भेदाढ़ेदः स्यादतोऽङ्गसंस्कारोऽपि न भवति, किंतु आत्मगतस्य दुःखस्यापनये- नाऽऽत्मन्येव संस्कार उत्पद्यते । अङ्गगतकण्डूनिवृत्तिस्तु द्वारमात्रं, यावता दुःखेना. पनीतेनाऽऽत्मनि दुःखं भवति तावत्सर्वमपनेतुमभिसंधाय कपनोपनमो दृश्यते हि अन्त ऐककथै कण्ड्यने सिद्धं भवति । अस्मादेव हेतोश्चौदनैक्यमेव भवति नत्वात कृतो मेदः कण्ड्यने । अतोऽगृह्यमाणविशेषत्वात्तन्नं भवतीति ।

विषाणे विष्यै तं ग्रन्थिं यदस्य गुल्फिदꣳ हृदि मनो यदस्य गुल्फिदमित्यवशिष्टान्यङ्गानि ।

अवशिष्टेष्वक्रेवित्यर्थः । तेन हस्ताद्यवयवेषु एकदेश एव कण्डूयनं नतु कृत्स्नाना कण्ड्यनमिति पूर्ववदर्थो भवति । शिरःशब्देन केवलशिरस एव ग्रहणं, तेन लला- टादिषु विषाणे विण्या इत्येव मन्त्रो न तु सुपिप्पलाम्य इति । चक्षुषोरर्थप्राप्तौ कृष्ण- विषाणया कण्डूयनं न, अयोग्यत्वात् । हस्तेनापि कण्डूयनं न, पाम भाबुकाः प्रमाः स्युरिति दोषश्रवणात् । तार्ह कथं कर्तव्यमिति चेत् । कृष्णविषाणाने पोटलिका हरु. सया बद्ध्वा तया कण्डूयनमित्येवं कण्डूयनं कर्तव्यमित्यहि । अङ्गग्रहणं शिरसोऽ. ङ्गत्वेऽपि प्राधान्य द्योतयितुम् । तेन स्नापनीयेनोत्सायेत्यनेन विहित उद्वर्तने प्राधा- न्यात्प्रथमं शिरस उद्वर्तनं तत इतरेषामिति सिद्धं मवति ।

सूपस्था देवो वनस्पतिरूर्ध्वो मा पाह्योदृच इति दण्डं प्रतिगृह्णाति ॥५॥

प्रतिग्रहणं यावत्पर्यन्तं न कृतं तावत्पर्यन्तं दानशब्दार्थः सिद्धो न भवति । दान विना प्रतिग्रहशब्दार्थोऽप्येवम् । एवं च दण्डदानप्रतिग्रहयोः समानकालि कताऽर्थि- क्येव । तत्करणमन्त्रः पूर्वमेव वक्तव्य इत्यप्यर्थात् ।

अग्निर्दीक्षितः पृथिवी दीक्षा तयाऽग्निर्दीक्षया दीक्षितो ययाऽग्निर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे वायुर्दीक्षितोऽन्तरिक्षं दीक्षा तया वायुर्दीक्षया दीक्षितो यया वायुर्दीक्षया दीक्षितः सा मा दीक्षा दीक्षायतु तया दीक्षया दीक्ष आदित्यो दीक्षितो द्यौर्दीक्षा तयाऽऽदित्यो दीक्षया दीक्षितो ययाऽऽदित्यो दीक्षया दीक्षितः सा मा दीक्षा दीक्षयतु तया दीक्षया दीक्षे चन्द्रमा दीक्षितो नक्षत्राणि दीक्षा तया

१क, च, छ. सदाऽस्थ । ३. ब, ज. स. न. तिरिति ।