पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P २०३६ सत्यापादविरचितं श्रौतसूत्र- [१०दशमाने- कण्ड्यत इत्यत्र. लोपकरुपकापस्तम्बीयस्पष्टवचनमिव प्रकृते तादृशस्पष्टवचनामावेन तथाकल्पनाया असंभवात् । बौधायनसूत्रस्वरसतः कण्डत्यभावेऽपि कर्तव्यताप्रतीतेम ।

सुपिप्पलाभ्यस्त्वौषधीभ्य इति शिरसि कण्डूयते ।

एतस्यादृष्टार्थत्वपक्षे शिरसि यस्मिन्कस्मिंश्चिदवयवे वर्षणं कुरुत इत्यर्पः । मोधायनेन दक्षिणं गोदानं कण्यत इति कण्ड्यने नियतदेशोक्त्याऽर्थप्राप्त्यमावेऽपि. कण्डयनं कर्तव्यमेवेति सूच्यते । भर्थे प्राप्ते कण्डूयत इत्यापस्तम्बोक्तदृष्टार्थत्वपले तु अर्षामा लोप एव । सूत्रकारस्योभयमपि संमतम् । नचादृष्टार्थत्वपक्ष इतरेषु कण्डूयनेषु एतन्मत्रप्राप्तिः कथं भवेत्प्रापकाभावादिति वाच्यम् । अर्थपृथक्त्वाकण्य- नमन्त्रोऽम्यावर्तत इतिपरिभाषासूत्रस्यैव प्रापकस्य : सत्त्वात् । शिर इति सप्त- पन्तवचनं शिरसि यत्र कुत्रचित्, यत्र कण्डूतिस्तत्र वा कण्ड्यने न तु शिरसः सर्वस्य कण्ड्यनमित्यर्थ पोषयति । मदृष्टार्थत्वपक्ष एतन्मत्रकरणकशिरो- धिकरणककण्ड्यनविधिः । इष्टार्थत्वपक्षे मन्त्रमात्रांशे विधिः कण्डयनविधिस्त्वन- वाद एव । यदा शिरसि कण्डूयते तदा मुपिप्पलाम्य इत्यनेनैव मन्त्रेण कण्ड्यते । इतराङ्गेषु यदा कण्डूयते तदा विषाण इत्यनेनैव । उभयपक्षेऽपि शिरस्येव कण्ठ्यन- मादौ तत इतराक्रेविति । अनेकेषु अर्थेषु कालव्यवधानेन जायमानेषु मन्त्रावृत्तिः । तथा च सूत्रम् - अर्थपृथक्त्वात्कण्ड्यनमन्त्रोऽम्यावर्तत इति । कालव्यवधानकृतमे. पात्रार्थपृथक्त्वम् । जैमिनेस्तु मते कालव्यवधानेऽपि नाऽऽवृत्तिः । तथा च तस्सूत्र- मेकादशाध्याय चतुर्थपादे कण्डूयने प्रत्यहं कर्म भेदात् , अपि वा चोदनैक्यमैकक- यात्स्यादिति । कण्ड्यनक्रियायां कण्डूयनकर्मापनेयस्य दुःखस्य दुःखापनयनसंस्का- याणामझानां च भिन्नत्वात्प्रत्यङ्गमावृत्तिः । अत्र कर्मशब्दः क्रियाजन्यफलशालिस्व. रूपपारिभाषिककर्मपरो धात्वर्यक्रियापरश्च । तथा च क्रियानन्यफलशालिवरूपकर्म- परत्वस्वीकारे कर्मणां क्रियाजन्य फलशालिना शिरआदिरूपाणां मेदात्कण्डूयने प्रत्यर्क मन्त्रावृत्तिरित्यन्वयः । धात्वर्थरूपक्रियापरत्वे तु प्रत्यङ्ग कण्डूयने कर्मभेदान्मन्त्रावृत्ति- रित्यन्वयः । अयं पूर्वमूत्रार्थः । उत्तरसूत्रार्थस्तु ऐककात् , एकमेव कर्म यत्र तस्य भावस्तस्माद्धेतोश्चोदना कण्डूयेतेसि चोदना तस्या ऐक्यमेव न भेद इति । अयं निष्क- ष्टोऽर्थः-दुःखानि न मिन्नानि न तु दुःखापनयनं स्वरूपेण चिकीषितं, नाप्यसं- स्कारः । येन त दाबेदः स्यात् । किं त्वात्मानं कण्डुतिदुःखाक्षिप्तचित्तमपनीतकण्ड दुःखं कर्तु कण्डयनं क्रियते । तेन यावता दुःखेनानपनीतेनाऽऽत्मनि दुःख भवति सावतः सर्वस्य दुःखस्यापनयनमत्र क्रियानन्यफलतच्छाश्यात्मैव । तया चैक आत्मैव

  • तादृशेत्यधिकम् ।

क. छ. मि। 7 १