पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

० [२द्वि०पटलः] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०३५ नेन-प्रतिकृष्य वसनस्यान्तान्प्रदक्षिणमुष्णीपेण शिरो वेष्टयतीति । प्रोर्णवनं प्रावर. णम् । बाससा प्रोर्णवनात्प्रारदक्षिणांसगतं कृष्णाजिनं निष्कासनीयम् । अन्यथा दक्षि- णांसस्य प्रावरणासंभवात् । दीक्षितस्य गर्भरूपत्वं बढचब्राह्मणे प्रपञ्चितं-पुनर्वा एतमृत्विजो गर्भ कुर्वान्त यं दीक्षयन्तीति । पट्टप्सदृशं गर्भवेष्टनमुल्वं, जरायु तु एतस्यापि वेष्टनं येन क्रियते स पदार्थः । सोऽत्र कृष्णाजिनरूपः । तेन वासप्ता प्रावरणोत्तरं कृष्णाजिनेनाऽऽच्छादनं शरीरस्य कर्तव्यम् । उक्तं च सूत्रान्तरे-वाससा शिरः प्रवेष्टयते कृष्णाजिनेन शरीरमाच्छाध कृष्य त्वा सुप्तस्याया इति वेदेः कृष्ण- विषाणया लोष्टमुद्धन्तीति । एवं च दीक्षिते गर्भवं संपन्नं भवति । सोमक्रयात्पुराऽपो- जवने दोषः श्रुतौ-यत्पुरा सोमस्य कयादपोपीत गर्भाः प्रजानां परापातुकाः स्युरिति । परापातुकाः परापतनशीलाः । एतस्य सोमक्रयोत्तरं जननं ततो वस्त्रापन- यनं युक्तमेव । तथा च श्रुतिः-क्रीते सोमेऽपोणुते जायत एव तदिति । अपोर्णवनमु- द्धाटनम् । किं चात्यन्तं राजादिकं प्रति जनानां प्रतिदिक्षायां पार्श्वस्थैः पाणिका. दिभिः समाया आवरणपट्टो यथाऽपनीयते तादृगेवैतद्भवति । तथा च श्रुति-अयो यथा वसीयासं प्रत्यपोर्तुते तादृगेव तदिति । अनेन प्रच्छादनेनास्मिन्काले तत उत्थानं बोध्यते ।

प्रत्तया कृष्णविषाणया कृष्यै त्वा सुसस्याया इति वेदेर्लोष्टमुद्धन्ति ।

प्रत्तवचनं कृष्णविषाणान्तरनिवृत्त्यर्थम् । प्रत्तवचनेनेदमपि गम्यते कृष्णविषाणा. प्रदानं वाससा शिरोवेष्टनोत्तरमेव कर्तव्यमिति । मत्रपाठकमान्मेखलापरिव्ययणादि. पत्नीसनहनान्तस्य दक्षिणांसपच्छादनपूर्वमावित्वमेव । वेदेर्वेदिसंबन्धि लोष्टं मृगोलकं यं कंचनोद्धन्ति विदीर्ण करोति । अत्र वेदिशब्दो लक्षणया वेदिदेशपरः । लोष्टमि. त्येव युक्तः पाठ इति लोप्टैनन्तीत्यस्मिन्सूत्रे प्रदर्शितमेव । अथवा लोष्टमिवोद्धन्ती. त्यर्थः , यथा लोष्टस्य प्रहारेण विदारणं तथेति । अर्थान्मृदः । मृदो विदारणं तूस्कि- रणेनेति लोकप्रतिद्धितः प्राप्तं तत्र प्रहारेण विदारणं विधीयते । नन्वेवं वेदिमु- द्धन्तीत्येव वक्तव्यं लाघवादिति चेत्, सत्य, वेदिमुद्धन्तीत्येवमुच्यमाने वेयाः सर्वावयवावच्छेदेनोद्धननं वेदमुद्धन्तीत्युक्तौ तु कस्मिंश्चित्प्रदेश उद्धननमिति स्वरूपमेदेऽत्रैकदेशोद्धननस्यैव विवक्षितत्वेन लांघवस्यात्राप्रयोजकत्वात् । एतादृशकु. सृष्टिकल्पनया व्याख्यानं लोष्टाभावे लोपापत्त्या। न चेष्टापत्तिः। यथाकथंचिदलोपानुगुण- व्याख्यानसंभवे लोपकल्पनाया अनुचितत्वात् । तथा च निदानसूत्रम्-भलोपो लोपान्न्याय्यतर इति । इदं चादृष्टार्थविषये द्रष्टव्यम् । नच वक्ष्यमाणस्य शिरसि कण्डूयत इत्यस्य यथाऽर्थामाव लोपस्तथाऽत्राप्यस्त्विति वाच्यम् । तत्रार्थे प्राप्ते शिरसि >