पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३४ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रथे-

सुशर्माऽसीति दक्षिणतो भसत्त आरोहतीमां धियꣳ शिक्षमाणस्य देवेति च सुत्रामाणं पृथिवीं द्यामनेहसमिति चेमाꣳ सुनावमारुहमिति वा ।

सुशर्माऽसीत्येतावानेवायं मन्त्रः । पूर्वश्वकार उत्तरमन्त्रेण सह संधानार्थः । उत्तर- श्वकारः प्रथमेन मन्त्रेण समुच्चयार्थः । इमार सुनावमारुहमिति सुत्रामाणमित्यनेन विकल्पते । दक्षिणतो दक्षिणप्रदेशतः पञ्चम्यर्थकस्ततिः । मसत् कटिप्रदेशो गुद- प्रदेशो वा तृतीयाथै तसिः । दक्षिणं जान्याच्यामितर्पतीति बौधायनः ।

आऽहं दीक्षामरुहमृतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्येऽधायित्यमृतेऽधाय्यृतं च मे सत्यं चाभूतां ज्योतिरभूवꣳ सुवरगमꣳ सुवर्गं लोकं नाकस्य पृष्ठं ब्रध्नस्य विष्टपमगममित्यारुह्य जपति ।

आरुह्येतिवचनमारोहणजपयोः कालाव्यवधानार्थ, तेन पन्याः शिरसि माळं प्रतिमुञ्चतीत्येतदादि जपानन्तरं भवतीति सिद्धं भवति ।

विष्णोः शर्मासीति कृष्णाजिनेन दक्षिणमꣳसं प्रच्छादयति ।

कृष्णग्रहणप्रयोजनं पूर्ववत् । दक्षिणग्रहणप्रयोजनं प्रागुक्तमेव । प्रशब्दोऽसस्य सर्वावयवावच्छेदेन च्छादनं यथा भवति तथा कर्तव्यमिति बोधयति । कृष्णाजिनग्रहण. मापस्तम्बोक्तवासोव्यावृत्त्यर्थम् । यच्छेति मन्त्रान्तः ।

नक्षत्राणां माऽतीकाशात्पाहीति वाससा शिरः प्रवेष्टयते ।

पासोऽत्रोष्णीषरूपं शिरोवेष्टने तस्यैव लोकतः सिद्धेः । प्रादाक्षिण्यं परिभाषासि- द्धम् । बौधायनापस्तम्बौ स्पष्टमाहतुः- प्रदक्षिणमुष्णीषेण शिरो वेष्टयत इति । उष्णीषरूपवस्त्रालाम इतरदपि । अत एवाऽऽपस्तम्बेन वाजसनेयकग्रहणं विकल्पा कृतं द्रष्टव्यम् । द्वैधे स्पष्टमेव विकल्प उक्तः- अथास्य प्रदक्षिणमुष्णीषेण शिरो वेष्टयतीति सूत्रं बौधायनस्य वाससैव प्रच्छन्नः स्यादिति शालीकिरिति । आचार्यस्य तूमयमप्यभिमतमिति विशेषानुक्तेर्गम्यते । उष्णीषशब्दो दीर्घशाटके प्रसिद्ध एव । वेष्टनं व्यापनम् । न पुरा सोमस्य क्रयादपोवीतेति प्राक्क्रयाद्वासोपसारणे श्रुतो दोषश्रवणात् , गर्भो वा एषयद्दीक्षित उत्वं वासः प्रोणुते तस्माद्गर्भाः प्रावृता जायन्त इति गर्मरूपदीक्षितोवरूपत्वेन वाससः संस्तवनात्प्रत्यपोर्णते शिरोऽग्रेऽनुपूर्वमितराण्य- जानीतिवक्ष्यमाणसूत्राल्लिङ्गात्, अथ यजमानं वाससा प्रो!तीति यजमानस्य वाससा प्रोर्णवनस्य स्वतन्त्रतया विधानाच्च वाससा सशिरस्कसर्वावयवप्रोर्णवनमादौ कृत्वाऽन- न्तरमुष्णीषेण शिरोवेष्टनमिति सिद्धं भवति । शिरोगतवासोवयवसंकोच उक्तो बौधाय- - 1 1