पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. [२वि पटलः] गोपीनाथभट्टकृतम्योत्नाव्याख्यासमेतम् । १०३३ दक्षिणत उदङ्मुखतयोपवेशनमन्यया दक्षिणाग्नेः पृष्ठतःकरणापत्तेः । बौधायनोऽपि स्पष्टमेवाऽऽह-दक्षिणत उदङ्मुखमुपवेश्येति । एकद्वारत्वे तु तेनैव प्रवेशः सामर्थ्यात् ।

तस्यैष एव संचर आ सुत्यायाः।

संचरो मार्गः । आ सुत्याया इत्यत्राऽऽमिव्याप्तौ। नासस्थिते सोमेऽध्वर्युः पूर्वेण द्वारेण हविर्धाने प्रविश्यापरेण निष्क्रामेदित्यत्रावमृथान्ता सुत्येत्यस्यार्थस्य निर्णीत- स्वादत्रापि स एव निर्णयः । इदं कर्मार्थसंचरे, लौकिके तु अग्रेणाऽऽहवनीयं जघ- नेन गार्हपत्यं वेत्यादि अव्ययायानुसारेण संचरः । आ सुत्याया इति अवधिविशेषवि- धिबलास्मुत्यासमाप्त्युत्तरमुदयनीयादिपु अप्रेणाऽऽहवनीयमेव कर्मार्थोऽपि संचरो न तु अतिदेशप्राप्तोऽपरेणाऽऽहवनीयम् । अन्यथा वैशेषिकातिदेशप्राप्तयोः संच- रयोर्मेदामावेनावधिविशेषविधिवैयापत्तेः । याजमानं व्याख्यास्याम इत्यधिकारा. देव यजमानलाभे तत्परामर्शकतच्छब्दोपादानमेतस्मात्पूर्वतनानि यजमानकर्माणि पत्न्या अपि भवन्तीतिज्ञापनार्थम् । तत्र वपनं पत्न्या नास्तीति आध्वर्यवसूत्रव्याख्या- न उक्तमेव । वपनामावात्स्वस्त्युत्तराण्यशीयेति जपोऽपि न । उद्गाहने पूमीत्यूहः । सूष्णीमिति बौधायनः।

इन्द्राग्नी द्यावापृथिवी इत्याहवनीयमभिमन्त्रयते ।

सन्तं पाहीति मन्त्रान्तः । प्राग्वंशप्रपादनोत्तरं दक्षिणीयापक्षे तां कृत्वाऽनन्तरमे. वाऽऽहवनीयामिमन्त्रणम् । अत्र साधिका युक्तिस्तं प्राग्वंशं प्रपाघात्र दीक्षणीयामेके समामनन्तीत्यस्मिन्सूझे प्रदर्शिता । एतदनन्तरं दीक्षाहुतयः । दीक्षाहुतिहोमानन्तरं पातं प्राणं मनसाऽन्वारमामह इत्यस्य मत्रस्य जपो यजमानस्य । प्रत्यगाशिषो मत्रानकर्मकरणाअपतीति सूत्रात् । आपस्तम्बेन पूर्णाहुतिसंज्ञकायाः षष्ठ्या दीक्षाहते. रनुमन्त्रणे विनियुक्तत्वादनुमन्त्रणमेव वा षष्ट्या दीक्षाहुतेहूयमानाया अनेन कर्तव्यम् । अनुमन्त्रणश्यापि अपत्वमस्तीत्युपोद्धाते प्रदर्शितमेव ।

अन्तर्वेदि कृष्णाजिनस्याऽऽस्तीर्णस्यर्क्सामयोः शिल्पे स्थ इति शुक्लकृष्णे राजी आलभते ।

अन्तर्वेदिग्रहणं शवनार्थकृष्णाजिनास्तरणादौ सर्वत्र राज्यालम्भनं स्यात्तन्मा भूदित्येतदर्थम् । कृष्णग्रहणं व्याघ्रानिने राज्यालम्भनव्यावृत्त्यर्थम् । रानी पड़ी। शुक्लकृष्णराज्योः सहैवाऽऽलम्भनम् । शिल्पे स्थ इति लिङ्गात् । आलम्मनं स्पर्श नम् । अत्र बौधायनः-शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरिति । द्वैधेऽन्योऽपि विशेषः- शुक्लकृष्णयोः संस्पर्श इति शुक्लेऽङ्गुष्ठो भवति कृष्णेऽङ्गुलिरित्येवं शुक्लकृष्णे संमृशैदिति बौधायनः पृथेनैवैतर संघिर संमृशेदिति शालीकिरप्येने एकानुल्यैव संमृदित्योप- मन्यव इति । पृथं त्रयोदशाङ्गुलम् । यज्ञस्योदच इति मन्त्रान्तः ।