पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०३२ सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्र- मोदनेनेतिवाक्यशेषवशादोदनार्थकत्वे निर्णीते सौर्य चरुमित्यादौ वाक्यशेषामावेऽप्यो. दनार्थकत्वं तथाऽत्रेति । अच्छिद्रेण पवित्रेणेति सर्वत्रानुषजतीत्याध्वर्यवसूत्रे सर्वत्रेति- ग्रहणाज्ज्ञापकात्त्रिष्वच्छिद्रेणेत्यादिरनुषतः। पवमानः सुवर्जन इति चैतमनुवाकमि- स्यत्रत्यश्चकारोऽनुवाकशब्दोत्तरं योज्यः । रहस्यपातकान्यप्ययमनुवाको नाशयतीत्य. स्यन्तं पावित्र्यमेतस्येति प्रसिद्धमिति प्रदर्शयितुमेतच्छब्दः । उक्तश्चायमर्थश्चतुर्वि- शतिमते- पावमानीस्तथा कौत्सं पौरुष सूक्तमेव च । जप्त्वा प्रत्यहमेतानि सर्वपापैः प्रमुच्यते ॥ इति । पावमानीः पवमानानुवाकगता ऋचः । पावित्र्यार्थ प्रत्यहमपि पाठः कार्यः । तथा च स्मृतिः- रुद्राध्यायं पावमानं पूर्वनारायणं तथा । यो जपेत्प्रत्यहं होतान्सः पापैः प्रमुच्यते ॥ इति । चकारः पूर्वमन्त्रैः सह समुच्चयायः । अध्वर्युणा पावमानं सावकाशतया कर्तव्यं पथा पवनत्रये तत्तन्मन्त्राणां सर्वेषां पाठो भवेत् । पवमानानुवाकस्य वाक्यश एक पाठः। इत्योकोपाहश्रीमद शिष्टोमयाजिसाहस्लामियुक्तवाजपेययाजिसर्वतोमुखया- जिद्विसाहनामियुक्तपीण्डरीकयाजिगणेशदीक्षिततनूनगोपीनाथ. दीक्षितविरचितायां श्रीमद्धगवत्सत्याषाढहिरण्यकेशिसू- शाम्बुधिगतनिगूढार्थरत्नालाभकृतविद्वज्जनसंताप- शामिकायां ज्योत्स्नाख्यायां वृत्तौ दशमम नस्य प्रक्षमः पटलः ॥१॥

10.2 अथ दशमप्रश्ने द्वितीयः पटलः ।

आ वो देवास ईमह इति पूर्वेण द्वारेण प्राग्वꣳशं प्रविशञ्जपति ।

द्वारग्रहणं वातायनव्यावृत्त्यर्थम् । प्रविशन्निति शत्रा प्रवेशसमकालं जप इति बोध्यते । यज्ञियासो हवामह इति मन्त्रान्तः ।

विद्युदसीत्यप उपस्पृश्यापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य दक्षिणत उपविशति ।

दर्शपूर्णमासादौ दृष्टस्य प्रतीकस्य ग्रहणम् । तेन मयि श्रद्धेति मन्त्रान्तो भवति ।