पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [१५०पटलः] - गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०३१ भवति । शराख्यतृणशलाका शरेषीका तया, दर्भेषीका दर्शशलाका तया वा । दर्भ- पुञ्जीलं दर्भकाण्डं तेन वा । दर्मकाण्डाग्रस्याञ्जनक्रियायां सामर्थ्याभावान्मूलेनैवाञ्जनम् । सतूलत्वं शरेषीकादर्भेषीकयोरेव । एतज्ज्ञापयितुमेव वाशब्दोपादानं मध्ये कृतम् । अथ वा तूलः काप्तिस्तत्सहितयेत्यर्थः । मध्ये वाशब्दोपादानं श्रुतौ सतूलयेतिस्त्री- लिङ्गनिर्देशाच्छरेषीकादर्भेषीकयोरेव तुल्यकल्पत्वं, दर्भपुञ्जीलस्य तु गौणकल्पत्वं, फळं शरेषीकाया अभावे दर्भेषीकाया ग्रहणं मुख्यत्वेनैव, दर्भपुञ्जीलसत्त्वेऽपि नतु तस्य ग्रहणं तथात्वाभावादिति द्रष्टव्यम् । अभ्यन्तरं यथाऽक्षितो बहिर्न मवति । अपान- मारम्याऽऽन्तमिति यावत् । अनिधावयन्नप्रतिनिवर्तयन्नेकैकं त्रिराते दक्षिणं त्रिरुत्तर त्रिरित्यर्थः । सकृत्सकृदेव मन्त्र उमयोरक्ष्णोः । तत्र क्रममाह-दक्षिणं पूर्वमिति ।

द्विर्वा सव्यम् ।

सर्वेषु पक्षेषु सकृन्मत्र एवोमयत्र । सव्ये त्रिराजनं पूर्वसूत्रात्प्राप्तं तत्र वैकस्पिक द्वित्वमनेन विधीयते ।

द्विर्दक्षिणꣳ सकृत्सव्यमित्येकेषाम् ।

उभयं त्रिनिदक्षिणं त्रिः सव्यं द्विरिति वेत्येवं पूर्वमुक्तं तत्र स्वतन्त्रं पक्षान्तर. मनेनोच्यते।

न पुनर्निषेचयति ।

एकेन प्रयत्नेन संततमञ्जनं कर्तव्यं तथा कर्तुमशक्यत्वे सातत्याथै पुनरञ्जन न निषेचयति न नेत्रयोर्योजयतीत्यर्थः । अथवा पुनःशब्दो बहित्यर्थे । निषेचयती- त्यस्य निर्गमयतीत्यर्थः । तथा चायमर्यो भवति न बहु निर्गमयतीति । अर्थान्नेत्रतो महिरिति । आञ्जनक्रियायां विशेषमाह बौधायन:-अधास्यतदाननं पिष्टं दृषथु.. पशेते सतूलया च शरेषीकया तस्य प्राङ्मुखस्य प्रत्यङ्मुख उपविश्य सव्येन पाणिना दक्षिणमक्ष्यनक्तीति ।

तस्य ते पवित्रपते पवित्रेणेति पाव्यमानो जपति चित्पतिर्मा पुनातु वाक्पतिर्मा पुनातु देवो मा सविता पुनात्विति च पवमानः सुवर्जन इति चैतमनुवाकम् ॥ ४ ॥

इति हिरण्यकेशिसूत्रे दशमप्रश्ने प्रथमः पटलः ।


आद्यश्चकारोऽथैकत्वेऽपि मन्त्रत्रित्वद्योतनार्थः । आवर्यवे भेददर्शनाद्युक्तमेत. त्रित्वम् । एकत्र निर्णीतः शास्त्रार्थोऽसति बाधकेऽन्यत्रापीति जैमिनिनाऽपि स्वीकृ- तम् । यथाऽऽदित्यः प्रायणीयश्वरुरिति विधौ स्थालीवचनस्यापि चरुशब्दस्यादिति-