पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- १०३० सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्रश्ने- लोमानि तदभिमुखतयेतराङ्गाणामभ्यङ्ग इत्यर्थः । अथवा मुखशब्देन केवलस्य मुख्यस्य मुखस्यैव ग्रहणम् । अग्रंशब्दः क्रमार्थः । शिरःप्रभृतिग्रीवान्तानामवयवाना- मनुलोममितराण्यङ्गानीत्यत्र समावेशः । अनुलोमशब्दस्यानुक्रमेणेत्यर्थः । तेन शिरःप्र- भृतिपादान्तक्रमेणाभ्यङ्गः कर्तव्य इति सिद्धं भवति । इतराणि मुखादितराणि, पूर्व- कल्पे हस्तादीनि उत्तरकल्पे शिरआदीनि । मुखमग्रेऽनुलोमंमितराण्यङ्गानीति पार्थ- क्येन निर्देशान्मुखाभ्यञ्जने पृथमन्त्रः । इतराम्यञ्जने संभवतां सकृन्मन्त्रः, असंभवता मन्त्रावृत्तिः । स्वभ्यक्तों भवति, तथाऽभ्यते यथा स्वम्यक्तो भवति । सुशब्दो यथा सर्वावयवसंबन्धो नवनीतस्य भवेत्तथेति सूचयति । अभिपूर्वकोऽजूधातुरम्यङ्गरूपमर्थ- माचष्टे । आपूर्वकोऽञ्जनमाचष्टे । सर्वावयवावच्छेदेन नवनीत संबन्धोऽभ्यङ्गपदार्थः । नेत्रावच्छेदेन कज्जलसंबन्धोऽञ्जनपदार्थः। एतावदुपसर्गबलालभ्येते प्रहारादिशब्द- पत् । स्वकीयकृत्स्नपृष्ठाभ्यङ्गस्य सुष्टु स्वेन कर्तुमशक्यत्वात्मुशब्देनान्यकर्तृकताऽपि प्रापिता भवति । तत्र कर्तुरनियमप्राप्तौ नियममाह बौधायनः-अन्योन्यस्य पृष्ठमभ्य. नक्तीति ।

वृत्रस्य कनीनिकाऽसीति त्रैककुदेनाऽऽञ्जनेनाऽऽङ्क्ते ।

त्रिककुदि पर्वते भवं त्रैककुदं तेन त्रैककुदेन। एतादृशेनाऽऽञ्जनेनाऽऽत इत्यर्थः । भक्षिणी इति शेषः । आञ्जनक्रियासांनिध्यात् । पाहीति मन्त्रान्तः ।

तस्मिन्नविद्यमाने येनैव केनचित् ।

त्रैककुदेन येन केनाप्यन्येन वाऽऽअनेनाऽऽत इत्येतावत्येव लाघवेन वक्तव्ये तस्मि. नविद्यमान इति वचनं त्रैककुदाजनतव्यतिरिक्तयत्किंचिदन्याञ्जनयोस्तुल्यविकल्पोऽपि कदाचित्स्यात्तद्वारणार्थम् । नन्वेवं तस्मिन्नविद्यमानेऽन्येनेत्येतावदेव वक्तव्यं तथा च व्यर्थं येनैव केनचिदिति सूत्रमिति चेत्सत्यम् । अस्मिन्प्रतिनिधावत्यन्तसजातीयस्यैव प्रथमं ग्रहणमनन्तरमितरस्येत्येतस्य नियमस्यात्राप्रवृत्तिरित्येतादृशार्थज्ञापनार्थत्वेन वैय. ाभावात् । तथा च शैलजमेवाऽऽञ्जनान्तरमादावत्यन्तसजातीयत्वात्प्रतिनिधित्वेन ग्राह्यम् । एतस्याप्यमावे कज्जलमित्येतस्य नियमस्यात्रामावः सिद्धो भवति ।

सतूलया शरेषीकया दर्भेषीकया वा दर्भपुञ्जीलेन वाऽभ्यन्तरमनिधावयꣳस्त्रिरेकैकं दक्षिणं पूर्वमाङ्क्ते ।

तूलमग्रं मूलेभ्यः स्वाहेति मूलसाहचर्यात् । पुष्यमिति केचित् । तन्न, ओषधीभ्यः स्वाहा मूळेभ्यः स्वाहा तूलेभ्यः स्वाहा काण्डेभ्यः स्वाहा वल्शेभ्यः स्वाहा पुष्पेभ्यः स्वाहेत्यश्वमेध ओषधिहोममन्त्रेषु पुष्पस्य पृथनिर्देशानुपपत्तेः । तेन साग्रयेत्यर्थो Lan १२.ज.स.म. 'याद'।