पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- । [१० पटलः] गोपीनाथभकृतम्योत्स्नाव्याख्यासमेतम् । १०२९ 3 वाक्यशेषश्च तद्वदिति । तद्दीक्षासु निवर्तत इत्येतत्सूत्रव्याख्यानावसरे व्याख्या तमेतत्सूत्रद्वयम् । मेध्यो मेधो यज्ञस्तदहः । दीक्षादशायामपि कृशस्य दीक्षावतैर्य- दकानां मध्येऽहं क्षीयते तदग्नावेव हुतं भवति । अतः कर्शिताङ्गेनैव पष्टव्यम् । एतेनापि ज्ञायते दीक्षाधिक्यपक्षोऽत्यन्त प्रशस्त इति । इदमप्यतोऽवगम्यत बाशितो मवतीति विधिरनेकदीक्षापर एष म त्वेकदीक्षापरः । तत्र तु किंचित्लेशसंपादनाय स्वरुपमेव भोक्तव्यमिति । अत्र व्याध्याचकृतं व्रतहासानिमित्तककृशत्वं गृह्यते । पीवा दीक्षतेति दर्शनात् । एतद्भोजनार्थः पाकोऽन्येनैष फारवितव्यो नतु स्वेन नच पत्न्या । तथा च बौधायनः-अथाऽऽभ्यां प्रतोपानीयं पापयति तस्या- शितौ मवत इति । ईश्वराय निवेद्यैव भोक्तव्यमिति सुप्रसिद्धमेष । एतच दंपतिम्या Y केवलाभ्यामेव भोक्तव्यं नतु ब्राह्मणोऽप्यत्र भोजयितव्य इति । एतस्थ भोजनस्य दीक्षितसंस्कारार्थत्वेनेतरभोजनस्य प्रतक्तरेवाभावात् । अत एवैकाकी न मुभीतेति निषेधस्यात्राप्रसरः।

महीनां पयोऽसीति दर्भपुञ्जीलाभ्यां गव्यं नवनीतꣳ समुद्यौति वर्चोधा असि वर्चो मयि धेहीति तेनाभ्यङ्क्ते मुखमग्रेऽनुलोममितराण्यङ्गानि स्वभ्यक्तो भवति ।

गव्यग्रहणं माहिषादिव्यावृत्त्यर्थम् । संशब्दः सम्यगित्यर्थे । तच्च सम्यक्स्षमुधवनकि. यायामन्वेति। उद्योतीत्यत्र शोधनार्थमिति शेषः । शोधनार्थभेवोदशरावे निधानमाह बौधा. पनः-अथास्यैतन्नवनीतं विचितमुदशराव उपशेरत इति युधातोमिश्रणार्थकत्वेऽपि तस्य पदार्थद्वयसाध्यत्वेन प्रकृते पदार्थान्तरासंभवेन तदर्थासंभवादालोडनार्थकत्वमेव युधातो- रिति अर्थविशेष प्रदर्शयितुमेवोच्छब्द उपात्तः । उधवने प्राइक्षिण्यं परिभाषासिद्धम् । सेनेति वचनं नियमार्थम्। तेन यथा तेनैव सांगाणामभ्यङ्गो भवति तावत्पर्याप्तमेवाऽऽलोर- नात्प्रागुपादातव्यं न पुनरन्यदुपादातव्यमित्येषोऽर्थः सिद्धो मवति । आलोडनं देवाद्विस्मृत्व कृतेऽभ्यङ्गे तदनन्तरं स्मरणे पुनरन्यद्गृहीत्वाऽऽलोज्य तेन पुनरभ्यङ्गः कर्तव्य इस्ये- सदर्थ वा तेनेतिवचनम् । अभ्यतः पाणिभ्यामेव सामर्थ्यात् , न दर्भपुलीलाम्या सामाभावात् । तस्य पाणिम्यां संप्रम्लाय्य मुखमेव प्रथममम्यत इति बोधायनः स्पष्टमेवाऽऽह । अग्र इति सप्तमी पञ्चम्यर्थे । तेन मुखममादारभ्याम्यत इत्यर्थी भवति । मुखस्याग्रं शिरस्तदारभ्य मुखमभ्यत इति । एतेन पराचीनताऽभ्यने प्रद. र्शिता भवति । तथा चाऽऽपस्तन्वः-पराचीनं त्रिरभ्यते मुखमग्र इति ग्रीवाऽपि । मुखसंबन्धिन्येव तदाधारभूतत्वात् । उत्तरत्रानुलोमग्रहणादपि शिरःप्रभृतिग्रोवान्तानाम- वयवानां मुख्यवृत्त्या मुखपदवाच्यत्वाभावेऽपि गोण्या वृत्त्या तत्पदवाच्यत्वम् । अन्यथा ग्रोवायां लोमाभावेन कुत्रापि तत्संग्रह एव न स्यात् । अनुलोमं यन्मुखानि १३०