पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

से I । १०२८ सत्यापादविरचिंतं श्रौतसूत्रं- [१०दशमप्र- इत्यनेन मोजनप्रमाणमुक्तम् । तथा च जठर एकमशं पवनाद्यर्थमवशेष्यैव भोजन कर्तव्यमिति आयुर्वेदसिद्धभोजनतः पवनाद्यर्थतुरीयभागचतुर्थीशपरिमितमधिकमत्र भोजनं कर्तव्यमित्येतादृशार्थज्ञापनार्यत्वेन सार्थक्यात् । इतोऽप्यधिकभोजनं शरीरपी. डाप्रसङ्गाद्विरुद्धमेव । अतः पवनाद्यर्थ किंचित्स्थलं संरक्ष्यैव मोक्तव्यम् । भुजि. प्रमाणं निर्दिष्टमित्यत्र मात्राप्रमाणं निर्दिष्टमित्यपि पाठः । अस्मिन्पाठेऽपि मात्राश- रमेन मोजनमेव गृह्यते । दोक्षणीयायां पूर्वत्र कृतायां दीक्षितधर्माणां प्रवृत्तत्वेन न कांचनाऽऽहति जुहोत्यन्यत्र ऋतुसंयुक्ताम्य इतिसूत्रोपात्तो वैश्वदेवप्राणाहुतीनां निषे- धोऽपि प्रवर्तते । दीक्षितस्य वैश्वदेवे मुख्यकर्तृत्वे तदनुज्ञयाऽन्यैः स्वार्थपाकेन कर्तव्य एव पैश्वदेवः । प्राग्वंशप्रपादनोत्तरं दीक्षणीयायाः कर्तव्यतायां दीक्षितधर्माणामप्र- वृत्तत्वेन निषेधस्याप्रवृत्तवैश्वदेवः स्वेनापि कर्तव्यः । एवं प्राणाहुतयोऽपि भवन्ति । जर्ने स्वेति मन्त्रोऽशनार्थ एव निषेधप्रवृत्त्यप्रवृत्तिताधारण्येन न तु प्राणाहुत्यर्थः । प्रथ- मप्राणाहुतिमन्त्रेणोर्ने खेत्ययं मन्त्रः समुच्चीयते तस्य पुरुषार्थत्वात् । अस्य ऋत्वर्ष- स्वात्प्रयोजनभेदान्नैवोर्ने स्वेत्यस्य प्राणाहुतिमन्त्रप्रत्याम्नायत्वमिति केचित् । अन्ये तु पञ्चानां स्थानेऽयमेव वा न कांचनाऽऽहुति जुहोत्यन्यत्र कतुसंयुक्ताम्य इत्यनेन पुरुषार्थीहुतीनां प्रतिषेधात्कत्वर्थ एव स्यादिति प्राहुः । तत्र पूर्व मतं तुच्छम् । प्रथमेन प्राणाहुतिमन्त्रेण समुच्चयेऽन्यतरस्य व्यवहितत्वेन क्रियासनिपाताभावेनाक. करणत्वासमात्, भिन्नशास्त्रार्थत्वेन द्वाभ्यां त्रिमिरित्यादिवदेककरणत्वोपदेशामा- वाच । प्राणाहुतीनां पुरुषार्थत्वानिषेधे प्राणाहुतीनामेवामावेन प्राणाहुतीनां सर्वातां स्थानेऽयमेव मन्त्र इत्युक्तिरसंगतैवेति द्वितीयमपि मां तुच्छमेव । अतः केवलमशना- मेव मन्त्रो न तु प्राणाहुतिस्थानिक इत्येव समाप्तम् । बच्यो नैव भवन्ति । देव. तोद्देशेन त्यज्यमानत्वेनाऽऽहुतिरूपत्वान्न कांचनाऽऽहुति जुहोतीत्येतस्य निषेधस्यात्रापि प्रवृत्तेनिरावाधात् । परिषेकानिमन्त्रणे तु भवत एव तयोर्दवतोद्देशेन त्यज्यमानत्वाभा- वात् । यत्रैकस्मिन्दव्य इति सूत्रात्सऋन्मन्त्रः ।

कनीयः कनीयोऽत ऊर्ध्वं व्रतयति ।

दीक्षास्विति शेषः । कनीयः कनोयोऽल्पमल्पमत ऊर्य दीक्षामारम्प याबद्दी- क्षासमाप्ति व्रतमुपैतीत्यर्थः । स्पष्टमेतदुक्तमापस्तम्बेन- तथाऽऽशितः स्याद्यथा ततो दीक्षामु कनीयः कनीयो व्रतमुपेयादिति । शरीरे कार्यसंपादनायैतत् । यथा यथा च शरीरे कार्याधिक्यं तथा तथा मेध्यता । तथा चाऽऽपस्तम्बः-यदा वै दीक्षितः कृशो भवत्यथ स मेध्यो भवति यदाऽस्मिन्नन्तरं किंचिन्न भवत्यथ स मेध्यो भवति यदाऽस्य कृष्ण चक्षुषोनश्यत्यथ स मेध्यो भवति यदाऽस्य त्वचाऽस्थि संघीयतेऽथ स मेध्यो भवति पीवा दीक्षेत कृशो यनते यदस्याङ्गानां मीयते जुहोत्येव तदिति विज्ञायत इति । तृतीयाध्यायेऽष्टमे पादे जैमिनिरपि-तपश्च फलसिद्धत्वालोकवादिति- स