पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सत्याषाढविरचितं श्रौतसूत्रं- [१०६शमप्रो-

मुक्तकच्छो यदा कुर्यात्कर्म काम्यं क्वचिन्नरः ।

वृथा भवति तस्सर्वं गुह्मस्थानप्रदर्शनात् ॥ इति गौमिलोक्तः।

मचात्राप्रकच्छस्य मुख्यत्वमस्त्विति वाच्यम् । गुह्यस्थानप्रदर्शनादिति हेतुना तस्यैव मुख्यताया अवगमात् । काम्यग्रहणान्नित्यनैमित्तिकयो यं नियम इति द्रष्टव्यम् । एकवचनात्सकदेव मन्त्रः । स चाऽऽद्यायां नीव्याम् । परिधानीयवस्त्र परिधानाय दक्षि- णतो न प्रसार्य, प्रामुख उदमुखो वा परिदधीत नीविकल्पनं प्रासंस्थोदक्संस्थ- भाषेनेत्यादि स्मात सर्वमुपसंहार्यम् । आचम्येति ख्यपा वासःपरिधानस्याप्सु दीक्षासंब- द्वत्व बोध्यते । तेन दशपेयेऽपराहे दशपेयाय दीक्षतेऽप्सु दीक्षायाः स्थाने षट्पुण्ड- रीका द्वादशपुण्डरीकां वा हिरण्यत्रनं यजमानः प्रतिमुश्चत इत्यत्रावशनान्ताया अप्स दीक्षायाः पुण्डरीकस्त्रप्रतिमोचनेन वासोनिवृत्तिमिव वासोदीक्षाया अपि निवृत्तिः सिद्धा भवति ।

ऊर्जे त्वेत्यश्नात्यूर्जमस्मासु धेहीति वा यदस्य मनसः प्रियं सर्पिर्मिश्रं दधि मधु वाऽभ्युपसेकम् ।

यदस्य मनसः प्रियं सीमिश्र दधि मधु वाऽभ्युपसेकं तदुर्ने त्वेत्य भातीत्यन्वयः । पत्तदोनित्यसंबन्धादार्षिकस्तच्छब्दान्वयः । यदन्नमस्याशनीयपदार्थसमूहस्य मध्ये मनस भात्मनः प्रियं तदनातीत्यर्थः । न तु यजमानस्येतीदमोऽर्थः स्वस्मिस्तस्य प्रयोगाभा- वात्, मनःशब्दस्य वैयपित्तेश्च । मनस आत्मवाचित्वमात्मानमात्मना वेरसीत्यादी दृष्टम् । मनसः प्रियं हविष्यमेवेति केचित् । सर्वस्याह विष्यस्यापि अत्राशनमित्येतदर्थ- प्राप्त्यर्थ सदस्य मनसः प्रियमितिवचनमित्यन्ये । यस्याहविष्यस्यापि मसूरवृन्ता- कादेस्तिथिविशेषपरिनिषेधेनेतरकाले रागप्राप्ते भोजनेऽशनाभ्यनुज्ञा यथा तथैतस्य मोजनस्य रागप्राप्तस्य कर्माङ्गत्वस्यापि सस्वात्तिथिविशेषनिषेधेनेतरकालेऽम्यनुज्ञाया अप्रवृत्तौ तत्प्राप्त्यर्थं यदस्य मनसः प्रियमितिवचनमित्येवमेव व्याख्यातव्यम् । सर्वा हविष्याशनकश्पना तु मलाण्डादिष्वतिप्रसक्तत्वेनाप्रयोनिकैव । इष्टापत्तौ तु पलाण्डायशनस्य पुनरुपनयननिमित्तत्वेन मध्ये सदापतिः । नचैतव्यतिरिक्तसर्वाहवि. घ्याशनबोधनार्थमेतद्वचनमिति वाच्यम् । एतदपेक्षया स्वल्पाहविष्याशनपरत्वस्यैव युक्तत्वात् । न च दोषाभाव एवात्र पचनात्कल्पनीय इति वाच्यम् । स्पष्ट वचनामावेन बहुषु दोषामावकल्पनापेक्षया यदशने प्रायश्चित्तप्रसक्त्यभावस्तावत्स्वेवाहविष्येषु

  • अत्रात्मशब्दस्य मनोवाचिलेऽपि मनःशब्दस्याऽऽत्मवाचित्वं कथमिति चिन्सं माना.

धेशम्दस्यले हरिशब्दस्याश्ववाचित्वेऽपि अश्वशब्दस्य हरिवाचित्वाभावात् । 1 १च, 'भाष । २ च.भप्राप्ती ।