पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१प्र०पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । १०२५

उपस्पृश्याऽऽचम्य ॥३॥

कुत्रचिदप इति नोच्यते कुत्रचिदुच्यते यत्र नोच्यते तत्रापामुत्पवनं कृत्वोपयोक्तव्या यत्रोच्यते तत्र नेतीति सार्वत्रिकम् । प्रकृतेऽप्शब्दाभावात्पात्रे जलं गृहीत्वा तासां पवित्रा- भ्यामुत्पवनं कृत्वा ता हस्तेनोपस्पृश्येति सिद्धं भवति । आचम्येत्यत्राऽऽ आचम्येति पद- च्छेदः स्मृत्युक्तप्रमाणसिद्ध जलमाचमने न विवक्षितं किंतु अधिकमपि भवतीत्याङा बोध्यते। तथा च चुलुकमात्रं जलं पात्रे गृहीतं हस्तेनैव सकृत्प्राश्नातीत्यर्थः सिद्धो भवति । अनेना- न्तरतो मेध्यो भवति। तथा च श्रुतिः-अपोऽनात्यन्तरत एव मेध्यो भवतीति । वसनस्या- न्तेन प्रतिच्छायेति बौधायनः। जलान्तःस्थितस्यैव चेदिदमाचमनं तदाऽत्र माध्याज्ञिकं कर्म, यदि बहिरागत्याऽऽचमनं तदा वक्ष्यमाणनीविपरिकल्पनान्ते माध्याकिं कर्मेति 7 ज्ञेयम् । ब्रह्मयज्ञस्तु क्रत्वारम्मात्प्राक्प्रातरेव कर्तव्यः ।

दीक्षाऽसि तनूरसि तां त्वा शिवाꣳ स्योनां परिधिषीयेति क्षौमं वासोऽहतं महत्परिधत्ते सोमस्य तनूरसि तनुवं मे पाहीति च ।

क्षौमाहतशब्दो व्याख्यातौ । महच्छब्देनात्र वासप्तः स्थौल्यमुच्यते । दैर्ध्यस्यार्था- देव सिद्धेः । तेन वासोऽत्र स्थूलं भवति दृढमिति यावत् । एतेन सूक्ष्मस्यादृढत्वा. यावृत्तिः कृता भवति । दीक्षाऽसीति दीक्षाऽसि तपसो योनिरित्याच्छिद्रिकप्रपाठक- पठितस्य सन्वित्यन्तस्य प्रतीकमिदम् । उक्तश्चाऽऽपस्तम्बेनाप्ययं मन्त्रः परिधाने । तनूरसि तां त्वामिति सौत्रो द्वितीयः । सोमस्य तनूरसि तनुवं मे पाहीति संहितास्थ- स्तृतीय इत्येवं मत्रत्रयं परिधाने । प्रादक्षिण्यं परिभाषासिद्धम् । प्रदक्षिणमहतं वासः परिधत्त इत्येवापठौधायनः । चकारः पूर्वाभ्यां सह समुच्चयार्थः । अथवा चकारो दीक्षाऽसि तपसो योनिरित्याच्छिद्रिकमन्त्रसमुच्चयार्थः । अस्मिन्पक्षे प्रथममत्रो दीक्षाऽसि तनूरसीत्ययमेक एव । दीक्षाऽसि तपस इत्यन्तं मन्त्रस्तृतीयः । सोमस्य तनूरसि तनुवं मे पाहीति च क्षौम वासोऽहतं महत्परिधत्त इत्यन्वयः ।

सूर्यस्य वासोऽसि नीविर्नामोर्जमस्मासु धेहीति तस्य नीविमनुपरिकल्पयते ।

सूर्यस्य वास इव वासोऽसीत्यर्थः । एतेन वासप्तः सोमदेवत्यत्वात्कथं सूर्यदेत्यत्व- मिति शङ्का निरस्ता भवति । तस्य परिहितवाससः । वासोन्ताप्रकाशनार्थोऽभ्यन्तर. गोपनाय वेष्टितवसनग्रन्थि विस्तामनु पश्चात्कल्पयत इत्यर्थः । परिशब्दो दायार्थः । r नीविमित्येकवचनं जातौ । तत्र कच्छचतुष्टये द्वौ नीविशब्दवाच्यौ कच्छौ । तत्र पश्चात्कच्छ एव मुख्यत्वात्पूर्वम् । १ क. ढ.तिनी।