पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२४ सत्याषाढविरचितं श्रौतसूत्रं- [१०दशमप्रभे- प्रकारान्तरमाह-

यल्लोमशमवकाशं तीर्थं तस्मिन्स्नाति कुण्डे स्नातीत्येकेषाम् ।

यजलं लोमशं यत्र तृणानि भवन्ति तल्लोमशं लोमानि विद्यन्ते यस्मिंस्तीय तल्लो. मशं, लोमशब्दस्तृणपरः । लोमभ्योऽधिस्तम्बयजुहरतीतिदर्शनात् । लोमादिपामादीत्य. नेन मत्वर्थीयः शः । अवकाशमवकाः शेवालाः । केचिच्छरोऽवका इति अपार शरोऽवका इति लिझाब्याचक्षते । अवकाभिराशो व्याप्तिर्यस्य तदवकाशम् । अथवाs- वकाशोऽस्यास्तीत्यवकाशः। अशआदित्वान्मत्वर्थीयोऽच्प्रत्ययः । सुखेनावतर्तुमक्काशो यस्मिन्भवति तादृश मिति यावत् । एतादृशं सत्तीर्थ यत्र लोकः स्नाति तस्मिन्या स्नायादित्यर्थः । न तु महामहिमास्वप्रवेव स्नायादिति नियमः । तासां संभवे तु तास्वेव स्नानमधिकम् । कुण्डं तल्लक्षणद्रोणी तस्यां वा मातीत्यर्थः । स्नातीत्यस्या मध्ये पुनरावृत्तिः पक्षान्तरं स्वतन्त्रमिदमितिप्रदर्शनार्थम् । कुण्डे स्नातीत्यत्र मण्डूक- प्लुत्या हिरण्यमवधायेत्यनुवर्तते । तथा चाऽऽपस्तम्बः-कुण्डे हिरण्यमवधाय तस्मिन् नातीति वाजसनेयकमिति कूपे नैवैतत्स्नानं वाजसनयिमतात् । तीर्थ प्रति गमने विशेष उक्तो वैधे-तीर्थगमन इति स ह स्माऽऽह बौधायनः प्रदक्षिणमावृत्येतरतीर्थं गच्छेदयामुगोऽपसलैरावर्तेतेत्यत्रो ह स्माऽऽह शालीकिरपसलैरावृत्येतस्तीर्थ गच्छेद- थामुतः प्रदक्षिणमावर्तेतेतीति । इतो वपनप्रदेशात् । अमुतस्तीर्थप्रदेशात् । यदि तीर्थ दूरे मवति तदोपाय उक्तो बौधायनेन- 1-अथ यदि दूरे तीर्थ भवत्युत्तरेण शाला द्वी कटपरिवारौ कुर्वन्ति पूर्व यजमानायापरं द्वितीय पत्न्यै तयोः प्राचीद्वारौ कुर्वन्ति तदुदकुम्भी निघापयतीति । तत्तयोः कटपरिवारयोरुदकुम्भौ निधापयति परिकर्मिभिः स्नानार्थमित्यर्थः । अस्मिन्नाने यत्राऽऽपः सुखाः सुखावगाहा इत्यारम्य पवमानः सुवर्जन इति चैतेनानुवाकेन स्नात्वेत्यन्तं सर्व स्नानतन्त्रं भवति । यत्राऽऽपः सुखाः मुस्वावगाहास्तदवगाो त्यस्मिन्नवगाहशब्दवाच्ये स्नाने हिरण्यवर्णा इत्यादिमत्रत्रय दीक्षार्थत्वेन विधीयते । अवगा त्यस्य स्नात्येत्यर्थः । एतेनानुवाकेन स्नात्वेत्यत्रत्य- स्नानशब्दस्य मानयित्वेत्यर्थ इति पदद्वयस्य स्नानप्रतिपादके सूत्रे संस्काररत्न- मालायामर्थः कृतोऽस्ति स तत्र द्रष्टव्यः । मध्याहस्नानदीक्षार्थस्नानयोः कालैक्ये प्रसङ्गसिद्धिर्मध्याह्नस्नानस्येति ।

उदाभ्यः शुचिरापूत एमीति स्नात्वोद्गाहते ।

पुनः स्नास्वेतिवचनं स्नानाङ्गतर्पणव्यावृत्त्यर्थम् । एमोतिलिङ्गादुगाहने मन्त्रः । उद्गाहनं तीरं प्रत्यागमनम् । ततो यन्मया दूषितं तोयमिति यक्ष्मोद्देशेन तीरे जलं निक्षिपति । पूर्वत्र दीक्षणीयाकरणपक्षे तु माध्याटिकस्नानाभाव एव । ततः स्मात द्विराचमनम् ।