पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ 7 [१५०पठळः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १०२३ सर्वेषां दीक्षितधर्माणां प्रवृत्तत्वेन नो रुद्रियाभ्योऽभ्यः स्वाहेति जपो भवति । तस्यामकृतायां दीक्षितधर्माणामप्रवृत्तत्वेन न जपः । यदि दन्तेभ्यो बहिनिर्गत जठरे गच्छति तदा प्रायश्चित्तं कृत्वाऽग्रिम कर्म कार्य तस्मिन्न कृते तद्विनाऽधिकाराभावात् । तस्माद्यषा लोहितं न निर्गच्छति तथैव दन्तधावनं कर्तव्यम् । तच्च प्रायश्चित्तं षट्त्रिं- शन्मत उक्तम् । केशनखरुधिराशने मतिपूर्वे त्रिरात्रमज्ञानादुपवास इति ।

हिरण्यवर्णाः शुचयः पावका इत्येषा हिरण्यवर्णाः शुचयः पावका वृत्रं भित्वा प्रचक्रमुर्हित्वाऽवद्यमापः । शतं पवित्रा वितता ह्यासां ताभिर्नो देवः सविता पुनातु । आपो अस्मान्मातरः शुधन्त्विति च शङ्खिनि ह्रदे हिरण्यमवधाय स्थावरासु स्नाति ।

स्नानमन्त्रालय एते । मनश्यान्ते सकृदेव नानम् । इत्येषेतिवचनमन्यत्र प्रसि- खस्य मत्रचतुष्टयग्रहणस्थानुवाकग्रहणस्य वाऽत्र प्रातिरितिशङ्कावारणार्थम् । तृती- यस्य रिप्रमित्यन्तः । शहिनि हरे नाति केवलं स्थावरासु चेत्नाति तदा तासु हिरण्यमन्तयित्र स्नातीति । अथवा शहिनि हरे याः स्थावरा आपस्तास्वेव हिरण्यमन्तर्धायैव स्नातीति । स्थावरा अशोष्याः । हशब्दसांनिध्यात् । स्थावरा निवृत्तगतय इत्यस्मिन्कल्पे तटाके सरसि वाऽपि स्नानम् । अस्मिन्पक्षे पूर्वव्याख्या- नार्थ एवात्रानुकूलो मवति । स्मृतौ दीक्षार्थस्नानं देवखाते नद्यां गायों संगमे वा महाफलमित्युक्तं- देवखातेऽथवा नयां गङ्गायां संगमेऽपि वा। स्नानं दीक्षार्थ कुति महाफलमुदाहृतम् ॥ इति । नयो महानयो गोदावरीभीमाद्या द्वादश । तथा च महानदीः प्रकृत्य ब्रह्मपुराणम्- गोदावरी मीमरथी तुमभद्रा च वेणिका । तापी पयोष्णी विन्ध्यस्य दक्षिणे तु प्रकीर्तिताः । भागीरथी नर्मदा च यमुना च सरस्वती । विशोका च वितस्ता च विन्ध्यस्योत्तरतः स्थिताः ॥ इति । भागीरथीगोदावरीवेणा इति तिस्रो गताः । तथा च ब्रह्मपुराणम् - तिस्रो नद्यो महापुण्या वेणा गोदाऽथ नाही । गां हरीशाङ्गतः प्राप्ता गङ्गा इति हि कीर्तिताः ॥ इति । गां हरीशाधिकात्प्राप्ता इति पाठान्तरम् । हरेश्वरण ईशस्य शिरस्तस्माद्नां पृथिवीं प्राप्ता इत्यर्थः । शङ्गशब्दः स्वच्छ जलं लक्षयति । शङ्खशब्दान्मत्वीय इनिः । शङ्खः शङ्ख इव स्वच्छं अलमस्मिन्नस्तीति शङ्खी सस्मिन्नित्यर्थः । अगाध जलं पत्र सहन इत्युच्यते । हृदस्यैव विशेषणं शझिनीति । १