१०२२ सत्याषाढविरचितं श्रौतसूत्र- [१०दशमप्र-
तत उर्ध्वक्रमेणैव धावयेच्छाखया दतः ॥ इति ।
पूर्वमूर्ध्वदन्तान्संशोध्य पश्चादधोदन्ता शोधयेदित्यर्थः । दन्तधावनकाष्ठप्रमाणं कौम- मध्याङ्गुलिसमं स्थूलं द्वादशाङ्गुलसंमितम् ।
सत्वक्कं दन्तकाष्ठं स्यात्तग्रेण तु धावयेत् ।। इति ।
इदं विषमदन्तस्य, इतरस्य तु कनिष्ठिकाग्रप्तम स्थूलम् ।
सूक्ष्मं तु हीनदन्तस्य समदन्तस्य मध्यमम् ।
स्थूलं विषमदन्तस्य त्रिविधं दन्तधावनम् ॥ इति विष्णूक्तेः ।
विष्णुः-द्वादशाङ्गुलिकं विप्रे काष्ठमाहुर्मनीषिणः ।
क्षत्रविट्शूद्रजातीनां नवषट्चतुरङ्गुलम् ।। इति ।
गर्ग:-चतुरगुलमानं तु नारीणां नात्र संशयः ॥ इति ।
इदं पत्न्या दन्तधावन उपयुज्यते । दन्तधावनं प्रकृत्य व्यासः-
प्रक्षाल्य पादौ हस्तौ च मुखं च सुसमाहितः ।
दक्षिणं बाहुमुद्धृत्य कुर्याज्जान्वन्तरा तु तत् ॥ इति ।
आश्वलायन:- राक्षस्यामुत्सृजेत्काष्ठं दिशि संमृज्य वा शुचौ ॥ इति ।
संमृज्य प्रक्षाल्य ।
विष्णुः-प्राच्या सौख्यं दन्तधावे शरीरारोग्यमेव च ।
दक्षिणे तु तथा कष्टं पश्चिमे तु पराजयः ॥
उत्तरे तु गवां नाशः स्त्रीणां परिजनस्य च ।
पूर्वोत्तरे तु दिग्भागे सर्वान्कामानवाप्नुयात् ॥ इति ।
अङ्गिराः-प्रक्षाल्य भक्षयेत्काष्ठं प्रक्षाल्यैव तु संत्यजेत् ।
आयुरित्यादिमन्त्रोऽयमुक्तः शाखाभिमन्त्रणे ॥ इति ।
स च मत्रः पुराणे-आयुर्र्बलं यशो वर्चः प्रजाः पशुवसूनि च ।
ब्रह्मप्रज्ञां च मेधां च त्वं नो देहि वनस्पते ॥ इति ।
दन्तधावनमन्त्रस्तु-मुखदुर्गन्धिनाशाय दन्तानां च विशुद्धये ।
ष्ठीोवनाय च गात्राणां कुर्वेऽहं दन्तधावनम् ॥ इति पुराणोक्तः ।
तूष्णी वा दन्तधावनम् । मुखदौर्गन्ध्यसंभावनायामयं मन्त्रोऽन्यथा तूष्णीमेवेति । शौनको दन्तधावनोत्तरकृत्यमाह-
पश्चाद्द्वादशगण्डूषैर्विदध्याद्दन्तधावनम् ॥ इति ।
लोहितं रक्तम् । अनागमय ननिर्गगयन् । दम्य इति शेषः । तेषामेव संनिहि. तस्यात् । पूर्वत्र दोक्षणीयायां कृतायां यदि लोहित बहिनिर्गतं चक्षुर्विषयं स्यात्तदा