पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [१५०पटलः] गोपीनाथभट्टकृतज्योत्माब्याख्यासमेतम् । १०२१ न्तरं विधानादिदं ज्ञायते दीक्षाप्रभृतिकर्मोपयोगिद्रष्यनिरादेशनमावश्यकम् । समारथ- जु)मादेरपि दीक्षार्थत्वात्तदस्यापीति । तथा च कूश्माण्डहोमावशिष्टाज्यस्य स्थापि- तस्य दीक्षोत्तरमशने निरादेशनामावेऽपि न दोष इति । अनिरादेशने भोजनं तु स्वस्वा. नस्यविजाम् । अनिर्दिष्ट नीक्षितान्नभोजनप्रायश्चित्तमुक्तमापस्तम्बस्मृतौ- यज्ञियानं नवश्राद्धं संग्रहे चैव भोजनम् । स्त्रीणां प्रथमगर्ने च द्विजश्चान्द्रायणं चरत् ॥ इति । यक्षियान्नं यज्ञसंबन्ध्यन्नम् । यज्ञसंबन्ध्यन्नस्यामोज्यता सूत्रैकवाक्यत्वायानोषोमी- यसमाप्तिपर्यन्तमनीषोमीयवपायागपर्यन्तं वा दृष्टव्या । संग्रहो विवाहः ।

स्वस्त्युत्तराण्यशीयेति सर्वत्र केशेषूप्यमानेषु जपति ।

सर्वत्रेतिवचनं समावर्तनचौलगोदानसंवन्धिकेशवपनेष्वप्येतज्जपप्राप्त्यर्थमनबन्ध्या- वपाया हुतायां दक्षिणस्यां वेदिश्रोग्यां परिनिते यजमानस्य केशश्मश्रूणि वापयत इत्यस्मिन्नमन्त्रकेऽपि वपन आश्वमेधिके केशश्मभूणि वापयते नखानि निकुन्तते दतो धावते स्नात्यहतं वासः परिधत्ते इत्येतस्मिश्चामन्त्र के ऽपि वपने च स्वस्त्युत्तराण्य- शीयेति जपप्रापणार्थं वा । उप्यमानवितिवर्तमान निर्देशाद्वपने क्रियमाण एव मपो न तु तरपूर्व न चानन्तरम् । अशुचित्वेऽपि वचनान्मन्त्रजपः । एतावानेव मन्त्रः ।

कृते नापितकृत्य औदुम्बरेण दतो धावते लोहितमनागमयन् ।

नापितस्य कृत्यं नास्तिकृत्यं तस्मिन्नापितकृत्ये । नापितकृत्य इत्यनेनाध्वर्युकर्तृक मिदं वपनकृत्यमित्यवगम्यते । नापितकर्तृकत्वे नापितकृत्ये कृत इत्येवं प्रयोगोऽसंगतः स्यात् । नापितकर्तृकत्वं चेदिष्टमभविष्यत्तदा जाते नापितकृत्य इत्येवावश्यत् । नहि. तथा सूत्रकृतोक्तम् । अतोऽध्वर्युकर्तृकमेवेदं वपनमिति । औदुम्बरमहणमितरवृक्षव्या- वृत्त्यर्थं ताम्रव्यावृत्त्यर्थं च । अविशेषात्काष्ठं पर्ण वा ग्राह्यम् । दतो दन्तान् । धावते शोधयति । इदं च दन्तधावनं कर्माझं न तु मुखदौर्गन्ध्यादिनाशार्थम् । तस्य प्रातः कृतेन दन्तधावनेन निषिद्धतिथ्यादिवशेन दन्तधावनकाष्ठस्थानीयद्वादशगण्डुपैर्वा तस्य जातत्वात् । एतस्य दन्तधावनस्य वैधत्वान्न स्मार्तनन्दादिनिषेधस्यात्र प्रवृत्तिः । यत्तु-दीक्षितो ब्रह्मचारी च यतिश्च विधवाऽङ्गना । नित्यमद्याइन्तकाष्ठममायां तु विवर्जयेत् ॥ इति स्मृतिवचनं तन्मन्त्रदीक्षापरं । गृहीतमन्त्रदीक्षस्तु दन्तानां धावनं चरेत् । नित्थं वेदाङ्गुलैः काठैरमायां तु विवर्जयेत् । इतितन्त्रवचनसंवादान्न तु यज्ञसंबन्धिदीक्षापरत्वे(त्व)। दतो धावत इति श्रौतविधिना साकं विरोधापत्तेः । तथा चामायां दीक्षायां दन्तधावनं भवत्येव । दन्तधावने विशेष- माहानिरा:-