पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. १०१८ मत्यापाठविरचितं श्रौतसूत्र- [१ दशमप्री- इति बाझेच ऋत्विना दक्षिणाप्रतिग्रहे दोषश्रवणात् । लौल्यं लोलुपता । आप- सावत्रापि प्रतिग्रहो न दोषाय । तथा च वडिपुराणम् - हस्त्यश्वरथयानानि मृतशय्यासनादियः । कृष्णाजिनं च गृह्णाति अनापत्सु गतो द्विमः ॥ तपोमयमुखी गा प सशैलां मेदिनी द्विमः । कुरुक्षेत्रे च यहान पण्डालात्पतितात्तया ॥ मासिके च नवश्राद्धे पुजन्प्रेतत्वमाप्नुयात् । इति । पागे-प्रतिगृह्णीयावृत्त्पर्य बामणः साधुतः सदा । अश्वं च मणिमातऋतिललोहानि वर्जयेत् ॥ इति । वृत्तिनापनम् । अथैतत्प्रायश्चित्तं प्रसमादुच्यते । तत्र योगीश्वर:- गोष्ठे वसन्ब्रह्मचारी मासमेक पयोव्रतः । गायत्रीनाप्यनिरतः शुध्यतेऽसत्प्रतिमहात् ॥ इति । मनु:-अपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ इति । असत्प्रतिमहादिति वचनद्वये पदच्छेदः। मासमित्यत्यन्तसंयोगवाचिन्या द्वितीयया निसहस्रमपस्य प्रतिदिनव्यापित्वं गम्यते । जपः पयोवतं च दोषगुरु(गौरव)लाघवानु- सारेण प्रत्येकं प्रत्येक समुचितं वा करप्यम् । यत्तु षट्त्रिंशन्मते- पवित्रेष्ट्या विशुध्यन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्द्रवेन मृगारेष्टया कदाचिन्मित्रविन्दया । देव्या लक्षनपेनैव शुध्यन्ते दुष्प्रतिग्रहात् ॥ इति, नद्देशकालद्रव्यकर्तणामन्यतरदुष्टत्वे ज्ञेयम् । अनयैव दिशा त्रिचतुःसनिपाते प्रायश्चित्तगौरवं करप्यम् । पूर्वोक्तगायत्रीलक्षजपो वेति केचित् । तीर्थे प्रतिग्रहस्य सतोऽपि निषिद्धत्वादसत्प्रतिग्रहत्वमेव । तथा चेवमेव प्रायश्चित्तं भवति । तत्र तीर्षे कर्माङ्गदक्षिणाप्रतिग्रहस्य निषेधेऽपि वैधत्वात्प्रायश्चित्तलाघवं करप्यमिति ज्ञेयम् । प्रायणीयादिवसे प्रयाणकर्तव्यतायामरणीसमारोपस्यैव नियमेन विधानावनानियमः सूचितो भवति । तत्र बौधायनोऽरण्योः समारोपणमाह- आमावास्येन वा हविषेष्ट्या नक्षत्रे वाऽरण्योरमोन्समारोम शालामभिप्रेत्युत्तरेण शाला परीत्य पूर्वया द्वारा शालां प्रपाद्य गार्हपत्यस्याऽऽयतने मपित्वाऽग्नीविहृत्य मध्यमे वैशे रानानं प्रपनन्तीति । कात्यायनः-समारोप्यामाशालास्तम्भे पूर्वार्धे गृहीत्वाऽरणीपाणिराहेदमगन्मेति । द्वैधेऽपि- अग्नीनां हरणमित्य नमान्हरेविति बौधायनोऽरण्योः समारोह्येति शाली x