पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 1 [१५० पटसः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १०१७ पानधर्मे-माद्रशुक्लचतुर्दश्यां यावदाक्रमते अलम् । तावद्गर्भ विजानीयात्तदू तीरमुच्यते ॥ इति । भत्र भाद्रशुक्लचतुर्दश्यां कदाचिवृष्टयभावे जलवृद्यमावेऽपि तावत्पर्यन्तं देश उपक्षणीयः । यदन्वञ्चौ पुरोडाशानुपाश्शुयाजमन्तरा यजतीत्यत्र पुरोडाशद्वयाभा- वेऽपि यथा देश उपलक्ष्यते तथा । तीरावधिश्च ब्रह्मपुराणे- साधं हस्तशतं यावद्र्मतस्तीरमुच्यते । इति । स्कान्दे-तीरादब्यूतिमात्र तु परितः क्षेत्रमुच्यते । अत्र दानं जपो होमो गङ्गायां नात्र संशयः । इति । तटद्वये प्रत्येक क्रोशद्वयाख्यगव्यूतिमात्रं क्षेत्रम् । अत एवोकं मविष्ये- गङ्गासीमां न लयन्ति सर्वपापाण्यशेषतः । दिशो दश पलायन्ते सिहं दृष्ट्वा यया मृगाः । एकयोजनविस्तीर्णा क्षेत्रसीमा तटद्वयम् ॥ इति । गर्ने प्रतिग्रहनिषेधः प्रसिद्धनदीषु । प्रसिद्धतरगण्डक्यादिनदीषु सूभयतः सार्ध. हस्तशतमिति तीरेऽपि निषेध इति शिष्टाः । क्षेत्रे तु निषेधो गङ्गाविषयः । तत्रैव क्षेत्रकथनात् । यत्तु ब्रह्मपुराणे- यत्र गका महादेवः स्वयंभूश्च तपोवनम् । सिद्धिक्षेत्रं तु तज्ज्ञेयं समन्तात्तु त्रियोजनम् ॥ इति । एकैकस्मिन्पार्श्वे साईयोजनमिति समन्तात्रियोजनमित्यर्थः । एतन्मरणेऽतिशयार्य न तु प्रतिग्रहप्रतिषेधार्यम् । यदा तु समन्तादर्धयोजनमिति पाठस्तदा स्कान्देन तुल्यार्पतेव । गर्भतीरक्षेत्रेषु यागकरणे यधुर्महाफलमृस्विजां तु दोषोऽस्त्येव । न तीर्थे प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि । अपि कामातुरो जन्तुरेका रक्षति मातरम् ॥ तीर्थे प्रतिग्रहो यस्तु तीर्थविक्रय एव सः । विक्रीतायां तु गङ्गायां विक्रीतः स्याजनार्दनः ।। मनाईने तु विक्रीते विक्रीत भुवनत्रयम् । यस्तु लौक्याटिजः क्षेत्रे प्रतिग्रहरुचिर्भवेत् । नैव तस्य परो लोको नायं लोको दुरात्मनः ॥ इति पाने, प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी नान्यः स्वामी कंदाचन ॥ तत्र न प्रतिगृह्णीयात्प्राणैः कण्ठगतैरपि ।