पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 १०१६ सत्याषाढविरचितं श्रौतसूत्र-१०दशमप्रमे- दिति विधिः । म्यावृस्कामोऽधिकारी । र्य पात्रे वा तरूपे वेत्यारम्पैतद्वै व्यावृत्तं देव- पजनमित्यन्तेन लक्षणम् । विपाप्मना भ्रातृव्येणेत्यारभ्य मीमाश्सन्त इत्यन्तेन फलम् । पात्रोपलक्षिते सहपत्रिभोजने तपोपलक्षिते विवाह बन्धुमित्रादयो यं पुरुषमुद्दिश्य भीमांसेरन्संदिहोरन्स पुरुषः संदेहहेतोरपवादादेः पाप्मनो व्यावृत्ति कामयते स व्याव- स्कामः । तं व्यावृत्तसंज्ञके देवयजने यानयेदित्यर्थः । औत्तरवेदिकादाहवनीयात्प्रा- चीन स्थलं प्रवणं क्रमनिम्न गार्हपत्याप्राजहितात्प्रतीचीन स्थलं प्रवणं क्रमनिम्नं यत्र तब्यावृत्तसंज्ञकं देवयजनमित्यर्थः । पापेन वैरिणा च व्यावर्तते वियुज्यते । एनं यज- मानं न पात्रोपलक्षिते सहपतिभोजने न तस्पोपलक्षिते विवाहे च बन्धुमित्रादयो मीमांसन्ते संदिहन्ते । भूतिका कार्य देवयनने याजयेत् । कार्ये देवयजने याजये- दिति विधिः । भूतिकामोऽधिकारी । कार्य इत्यनेनैव तलक्षणमप्युक्तं भवति । कार्यों वै पुरुषो भवत्येवेति फलम् । मृच्छिलादिभिरुन्नतीकरणीय कार्यम् । उपनयनादिसंस्कार। रुन्नतीकरणीयः पुरुषस्ततस्तस्येदं योग्यं फलमिति दर्शयति मवत्येवत्यनेन । संवत्येवेति ऐश्वर्य प्राप्नोत्येवेत्यर्थः । तत्रैकोन्नतव्युन्नतव्यावृत्तेषु देवयजनेषूनतत्वनिम्नत्वे अकृ- त्रिी ज्ञेये । असंभवे कृत्रिम अपि । एकोनते देवयमने खीक्रियमाणे प्राग्वंशमारम्य यूपावटान्तं शौस्वेन मानेन तूष्णीमेव मानं कर्तव्यं सदोहविर्धानयोरन्तरौनत्यसंपा- दनाय । एवं न्युनतव्यावृत्तयोरपि यथालंक्षणम् । कार्ये तु सर्व मृच्छि- शादिमिरुन्नत स्पलं यावत्पर्याप्त संपावनीयम् । नितिगृहीतदेवयजनस्य निन्दि. तत्त्वाददितरेषां प्रशस्तत्वं नहि निन्दा निन्दितुं प्रवर्ततेऽपि तु स्तुस्यं स्तोतुं प्रव. तत इति न्यायेन । यजमानपरिक्रोतोऽवयुः कथं यजमानायानिष्टं कामयेत । अप वा याजयेदिति यावन्ति पदानि तेषु स्वार्थे णिच् । यं कामयेत नमेजयेत्, भ्रातृ- व्यवन्तं पशुकाम सुवर्गकामं प्रतिष्ठाकाम पशुकाम यं कामयेत निर्मत्याऽस्य यज्ञ ग्राहयेयं व्यावृत्कामं भूतिकाममित्येतेषु विभक्तिलकारव्यत्ययो ज्ञेयः । अस्मिन्पक्ष इच्छाया यजमानमतत्वं संपन्नं भवति । वैयधिकरण्यं च परिहतं भवति । निर्गति. गृहीतदेवयजनस्याऽऽभिचारिके कर्मणि उपयोगश्च सिद्धो भवति । यजमानानिच्छा- यामध्वरिवेच्छा कथं कर्माङ्गकाम्यदेवयजनप्रयोमिका भवेदित्यापत्तिरपि निरस्ता भांति । अत्र प्रतिग्रहप्रतिषेधार्थ तीर्थगर्भादि कथ्यते । सत्र अमपुराणं- प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् । तत्र नारायणः स्वामी नान्यः स्वामी कदाचन ॥ तत्र न प्रतिगृहीयात्प्राणैः कण्ठगतैरपि । इति । अत्र प्रवाहमिति जलावध्युपलक्षणम् । तेन पुष्करादौ सडागवाप्यादिरूपे तीर्षे सर्वत्रैव मळमवधीकृत्य हस्तचतुष्टयाभ्यन्तरे निषेधः ।