पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५ पटकः] गोपीनाथभकृतज्योस्लाव्याख्यासमेतम् । १०११ मित्यादिवान्या शम्याप्रास इत्येतदन्तलक्षणलसितं तनियमगतश्रीगतश्रीसाधारणं देष- यमनमिति निष्कृष्टोऽर्थः । शुश्रुवान्यामणी रानन्यश्व गतश्रियः । शुश्रवान्वेदत्रया- ध्यायी । अहे बुधिनय पत्रं में गोपायेति मन्ने वेदत्रयाध्यायिनः श्रीशब्दवाच्यता स्पष्ट- माग्नाता । नाम नयतीतिव्युत्पत्या ग्रामणीशब्देन मामाधिकार्युच्यते । रामन्योऽभि. षिकः क्षत्रियः । गता प्राप्ता श्रीर्यस्य स गतीः । ये गत्यर्थास्ते प्राप्त्यर्था इति शास्त्रात् । देवयजने विशेषमाहाऽऽपस्तम्बः-यत्र वा बहवो ब्राह्मणाः साधयेयुः रमयो वाव देवयननं यत्र कानानाधाय यजते देवयजन एव यजत इति विज्ञायते दक्षिणी वाव देवयजनं दक्षिणाश्चत्कल्याणीददाति देवयनन एवं यजत इत्येक इति । पत्र यद्देवयजनविषये वहयो ब्राह्मणाः सदस्यवसाक्षिणः साधु ते कृत्यमत्रेति लाम. औरंस्तदुक्तलक्षणाभावेऽपि देवयजनं स्यात् । गरीयसोऽस्य गुणस्य लामाविति भावः । सथा च देवयमनाधिकारे ब्राह्मणम् --विश्वे ह्येतदेवा जोषयन्ते यहाह्मणा इति । यत्र क चानीनापायान्याधानं कृत्वा यजते यागं करोति तदेवयननं नित्यमुक्तलक्षणामा. वेऽपि । अयं कल्पः सोमपूर्वाधाने । अथ वा यत्र क चामीनाधाय स्थापयित्वैव यजते तदेव देवयननं नित्यमुक्तलक्षणाभावेऽपीति । अस्मिन्पले देवयजनैकदेश एव प्राग्व- शाविरुद्ध स्थल एवाग्नीनिधाय तत्रैव संकल्प्य राजपूजनादि मधुपर्कान्तं कृत्वा शाला प्रति गच्छेदिति प्रयोगः । अग्निसनाथदेशस्य का गुणापेक्षेति भावः । कस्याप्यो लक्षण- वत्यो बयो गाववेत्स्युस्तदा दक्षिणाबाहुल्ये महागणे सति देवय जनगुणाभावः क्रतो- रकिंचित्कर इति भावः । यथोक्तलक्षणललितदेवयजनालाम एवैते पक्षा दृष्टव्याः । उमयसत्त्वे त्वधिकगुणावहं भवतीत्यर्थतः ।

अतिप्रवख्येऽभिचरन्यजेत गुहाक्येऽभिशस्यमानः ।

अति अतिशयेन प्रवृश्य प्रवृश्य वृक्षांश्छित्त्वा छित्त्वैव देवयननं कुर्युस्तदतिप्रम- रूयम् । आपस्तम्बेन निर्वख्येऽभिचरन्यजेतेत्येतस्यैव निर्वख्यशब्देन. व्यवहारः कृतः । एतत्स्वरूपमाह स एष--यस्मावृक्षान्वल्मीकानीति निर्हरेयुरथो अभिखनेयुरिति । वृक्षांछिस्म वल्मीकानि खास्वा देवयजनं कुर्युतान्नवस्यमिति तात्पर्यार्थः । गुहाक्ये गुहावने मुहाबहुले वन इति यावत् । यमकर्तारं पापस्य करिमादिशन्ति सोऽमिश- स्यमानस्तस्य गुहावनं देवयजनं भवतीत्यर्थः । अत्राऽऽपस्तम्बो विशेषमाह--परोसं. गुहावने याजयेदभिशस्यमानं परोक्षं पृष्ठान्युपेयुः सर्वमुपाशु क्रियेत स्थले यजोति यथा लोका न पश्यन्ति तत्परोक्षमभिशस्यमानं पाजयेत् । तस्य पृष्ठान्यपि परोक्षः मुपेयुः । न स्वास्वृक्ष गायेयुः, सर्व साङ्गं प्रधानमुपांशु क्रियेत, स्थल उच्छ्रितभूपो यजेतेत्यर्थः । अन्य विशेषमाहाऽऽपस्तम्बः--यत्रापो देवयननं चान्तरेण पन्धा अभि. विशषेतस्मिन्यातयेचं कामयेत नमु-तरो यज्ञ उपानमेदिति । नौशयनोऽपि... कर्मा-

१२०