पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ल [१०पटलः] गोपीनाथभट्टकृतज्योत्साध्याख्यासमेतम् । १०११

आदित्यो मेऽध्वर्युः स मे देवयजनं ददात्वध्वर्यो देवयजनं मे देहीत्यध्वर्युं चन्द्रमा मे ब्रह्मा स मे देवयजनं ददातु ब्रह्मन्देवयजनं मे देहीति ब्रह्माणं पर्जन्यो म उद्गाता स मे देवयजनं ददातूद्गातर्देवयजनं मे देहीत्युद्गातारमाकाशो मे सदस्यः स मे देवयजनं ददातु सदस्य देवयजनं मे देहीति सदस्यमापो मे होत्राशꣳसिन्यस्ता मे देवयजनं ददतु होत्राशꣳसिन्यो मे देवयजनं मे दत्तेति होत्रकान्रश्मयो मे चमसाध्वर्यवस्ते मे देवयजनं ददतु चमसाध्वर्यवो देवयजनं मे दत्तेति चमसाध्वर्यून् ॥२॥

स्पष्टम् ।

याचित्वेदमगन्म देवयजनं पृथिव्या इति देवयजनमध्यवस्यति ।

देवा इज्यन्ते यस्मिस्तद्देवयजनं देवानां यजनं यस्मिन्निति वा देवयजनं, तदध्यव- स्यति सहाग्निभिरुपकल्पितसोमविक्संभारैश्चोदकुम्भपुरःसरं वासार्थ गच्छतीत्यर्थः । अनुप्रयायावस्येदित्यत्रावस्यतस्तथाऽर्थदर्शनात् । एमगन्म देवयन नमिति मन्त्रलि- साच्च । मदेमेति मन्त्रान्तः । अगन्मेति बहुवचनं पत्न्यमात्याभिप्रायम् । तेनामात्या अपि सह स्युः । इदं चामात्यसाहित्य तत्सद्भावामिप्रायेण । पत्न्यां तु नैवं तां विना कतोरेवाभावात् । तस्या देवयजनं प्रति गमनं तु अरण्यन्वारम्भस्य पत्त्या विहितत्वा- तद्वारा सिद्धमेव । यजमानस्य मुख्यत्त्वादेवैतद्राह्मणे देवयजनर ह्येष पृथिव्या आगच्छति यो यजत इत्येकवचनं श्रूयते । याचित्वेत्युक्तानुवाद आपस्तम्बोक्तस्यापित वा न देवयजनं याचेदेवता एवोपतिष्ठत सक्षेदं पश्येत्येतस्य पक्षस्य निराकरणार्थः । क्वाप्रत्ययादेवयजनाध्यवसानाङ्गता । तेन देवयजनाध्यवप्तानोत्कर्ष एतस्याप्युत्कर्षः समारोपणादिकं देवयजनयाचनात्पूर्वमेव भवतीति । अत्र देवयजनाध्यवसानमरण्ये दीक्षतेऽरण्ये यजत इत्यस्मिन्पक्षे । अग्रे यद्विधास्यति तहामे दीक्षतेऽरण्ये यनत इत्यस्मिन्पक्ष इति द्रष्टव्यम् । देवयजनमध्यवस्यतीति पूर्वमुक्तं तत्र किंलक्षणं देवयजनमित्याकाङ्क्षायामाह-

यत्समं प्रतिष्ठितमोषधिवदनूषरमभङ्गुरमनुपहितमनिरिणमविस्रग्दारि(विसृग्दारि)।

यत्सर्ग समभूमि यद्देवयननं भवति तद्देवयजनमध्यवस्यतीति पूर्वेणान्वयः । प्रति. ष्ठितं सुशोभित मृदुमित्वादिमिर्यत्र स्थितस्य मनोऽभिरुचितं भवति । तथा च बौधा- यनः-जुष्टे देवयजने शाला कारिता भवतीति । जुष्टे ऽभिरुचित इत्यर्थः । सर्वेषामपि . थीकानुराधेनाविसृग्दारी त्यपि पार्यो ज्ञेयः ।