पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

{ १०१० सत्यापाढविरचितं श्रौतसूत्र- [१०दशमप्रभे- देवयजनस्य तत्र गच्छति याचनार्थम् । तत्रापि न लभ्यते चेत् , यो यक्ष्य इत्यु- कत्वा न यनते त्रैधातवीयेन यजेतेति विहितां त्रैधातवीयेष्टिं कुर्यात् । वरणकाल एव. त्विक्संपादनमिति पक्ष ऋत्विगलामेऽपीति केचित् । वस्तुतः सामन्युपकरुपनं यथा संकल्पात्पूर्व तत्विग्देवयजनकल्पनमपि । तथा च न धातवीयेष्टिर्नच क्रत्वनार. म्मरूपो विभ्रेषः । बौधायनः स्पष्टमेतद्वैधसूत्र उक्तवान्नादृष्ट्वा रानानं चविनश्च दीक्षे. दिति । षकारो देवयजनपात्रादिसामग्रीसंग्रहार्थः ।

अग्निर्मे होता स मे देवयजनं ददात्वित्युपाꣳशु होतर्देवयजनं मे देहीत्युच्चैर्मानुषम् ।

उपांश्वित्यनन्तरं देवयजनं याचत इत्यनुवर्तते सामान्यप्रतिज्ञासूत्रात् । तत्तन्म- अलिङ्गात्तं तं प्रति । मानुषमिति देवयजनविशेषणम् । ऋत्विविशेषणत्वे मन्त्रेषु मान- पनामनिर्देशाभावेन तत्त्वानुपपत्तेः । तेनार्थात्पूर्वतो दैव्यदेवयजनयाचनमिति सिध्यति । भदृष्टार्थमेतत् । उपांशुत्वस्य शब्दधर्मत्वादेवयजनयाचनमन्त्रेष्वेवान्वयो न तु याचने । सेन मन्त्रमुपाशक्त्वा दैव्यं देवयजनं याचत इत्येवं वाक्यं भवति । एवं मानुषमित्य- त्रापि । एवं सर्वत्र द्रष्टव्यम् ।

एवमितरेषूपाꣳशु देवतानामधेयमभिव्याहरत्युच्चैर्मानुषस्य ।

एवमितरेष्वित्येतावतेष सिद्धावुपांशु देवतानामधेयममिव्याहरत्युच्चैर्मानुषस्येतिव- चनं प्रकारान्तरमिदं पूर्वेण सह विकल्पार्थ इति प्रदर्शयितुम् । किं तत्पूर्व किं तदुत्तर. मिति चेदुच्यते-पूर्वमन्त्रयोरुपांशुत्वोचस्त्वे अत्र तु नामधेययोरेवोपांशुत्वोच्चस्त्वे इति पूर्वमन्त्रेषु देवतानामधेयानामेवोपांशत्वेऽवशिष्टमन्त्रभागाणामांदुच्चैस्त्वम् । उत्तरमन्त्रेधु मानुषनामधेयानामेवोच्चस्त्वेऽवशिष्टमन्त्रभागाणामर्यादुपांशुत्वमिति ज्ञेयम् । मानुषमि- त्येव छाघवाद्वक्तव्ये गुरुभूतः षष्ठवन्तत्वेन निर्देशोऽत्र ऋत्विङ्नामापि ग्राह्यमिति गमयति । यथाऽमुकशर्मन्मानुष होतदेवयजनं मे देहीत्यादि । नामेव नामधेयम् । भागरूपनामभ्यो धेय इति स्वार्थे धेयप्रत्ययः । अभिव्याहरणमुत्कीर्तनमेव देवताना- मवेयशब्दसमभिव्याहारात् । होतेत्यादिनामानि तु न मानुषाणि किंतु आत्विज्यप्रयु. तानि । मानुषस्येत्यनन्तरं देवतानामधेयमित्यत्रत्यसमासकदेशनामधेयशब्दोऽनुवर्तते । देवतानामधेयमभिव्याहरतीत्यत्र देवताया नामधेयं देवतानामधेयमिति षष्ठीतत्पुरुष एव लाघवान्न तु देवताया नामधेयं यत्रेति व्यधिकरणबहुव्रीहिरिति । बहुव्रीहिसमासे तु देवतानामधेयशब्दस्य मनपरतायां पूर्वेण सहकार्यत्वेन पुनरुक्तितादवस्थ्यापत्तेः अतः षष्ठीतत्पुरुष एव युक्तः । अत उपांशु देवतानामधेयमभिव्याहरत्युवेर्मानुषस्ये- त्येतत्सूत्रं पक्षातराभित्रायोपेत्येवमवश्यं स्वीकार्यमित्यक्षं बहुना ।