पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१५०पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १००९ प्रयोजनं याचित एव सश्रद्धं ददाति तदैव देवयमनवान्भूया इत्याशीर्यदि निर्बन्धादि- नाऽनुव्यवहारभयादा तदा नाऽऽशोरिति । यदहं देवयजनं वदेत्यनुव्याहरिष्यतः प्रतिक्षा।

अथैनमभिव्याहारयन्ति ।

अपशब्द आनन्तर्यार्थः । तेन यदहं देवयननं वेद तस्मिस्त्वा वृश्चामास्येतदन- न्तरमेव होत्राभिव्याहरणं कर्तव्यं न तु तेन सह तत्पूर्व वेति । एनमदातारम् । भभि- ग्याहारोऽत्र शापः । वाचमुपावोर्याक्त्वा हास्यतीत्यादिवक्ष्यमाणमन्त्रलिङ्गात् । वक्ष्यमा- गाभिच्याहरणमन्त्रप्रतिपाचाभिर्वागादिभिरित्यर्थः । बहुवचनं वक्ष्यमाणहोत्रायभिप्रा. पेण । सामान्यप्रतिज्ञेयम् । अथवाऽभिव्याहारयन्तीति स्वार्थे णिच् । वक्ष्यमाणा होत्रा. क्यः । नपानविजः प्रयोज्याः प्रयोजको यजमानस्तथा च नागतिका(क)गतिका णिचः स्वार्थपरत्वकरुपनेति वाच्यम् । अभिव्याहरणकर्तृत्वस्य होत्रादिनिष्ठत्वमिव यजः मानस्यापि तस्कर्तृत्वस्याने वक्ष्यमाणस्पेन स्वस्मिन्स्वप्रयोज्यत्वासमवात् । अतः स्वार्ष एक णिच् । सत्प्रकारमाह-

वाचमुपावधीर्वाक्त्वा हास्यतीति होता प्राणमुपावधीः प्राणस्त्वा हास्यतीत्यध्वर्युर्मन उपावधीर्मनस्त्वा हास्यतीति ब्रह्मा चक्षुरुपावधीश्चक्षुस्त्वा हास्यतीत्युद्गाता श्रोत्रमुपावधीः श्रोत्रं त्वा हास्यतीति होत्रका आत्मानमुपावधीरात्मा त्वा हास्यतीति सदस्योऽङ्गान्युपावधीरङ्गानि त्वा हास्यन्तीति चमसाध्वर्यव: प्रजापतिमुपावधीः प्रजापतिस्त्वा हास्यतीति यजमानो भूतान्युपावधीर्भूतानि त्वा हास्यन्तीति सर्वे ।

होत्रादीनामुपादानं तत्तन्मत्रसंवन्धपरिक्षानार्थम् । अन्यथा प्रपमः कस्य मत्रो द्वितीयः कस्येत्यादिपरिज्ञानं न स्यात् । सर्व उक्ता होत्रादयोऽनुक्ता यजमानस्य प्रेप्याद्याश्च । क्रमेणैवामिव्याहरणम् । एवं शप्ते ततोऽन्यं याचते-

अथर्त्विजो देवयजनं याचते ।

अपशब्दो यद्यपि स्वकीय एव देवयजनदेशस्तथाऽपि रामानुज्ञा विना नैवविजः प्रति याचनं भवतीति । ऋत्विज इति द्वितीयाबहुवचनम् । होत्रादीनामनुज्ञापनमेवात्र याचनशब्दार्थः । आपस्तम्बस्तु ऋविनः प्रति याचने राजकर्तृकतामाह-राजा देवयानं यावत्यग्निमें होता स मे होता होतदेवयजनं मे देहीत्यादिना । यत्र सम्धि-