पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- [१५० पटलः] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । १००७ प्रारम्भो परणं यज्ञ इति वचने गृहीतमधुपर्कस्येतिवचनकवाक्यत्वाय धरणं समन्त्र- कमेवोत ज्ञेयम् । एतेन-वतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे । प्रारब्धे सूतकं न स्यादनारब्धे तु सूतकम् ॥ इतिविष्णुवचनबोधितानार-महेतुकं सूतक लौकिकवरणवृतानामप्यस्त्येव । सूतक ग्रहणं मृतकोपलक्षणम् । गृहोतमधुपर्कस्य यजमानात्तु भरविज इत्यत्रविक्शब्द अतुयजनविशेषनिमित्तक एवं ग्राह्यः । तेन न घमासाध्वर्युम्यो मधुपर्कः किंतु गन्धा- दिमिः पूमामात्रम् । यजमानस्यापि यावत्कर्म तावदेवाशीचाभावः । ऋत्विजा दीक्षित ताना चेत्यनन्तरोदाढतवाक्यात् । न दीक्षिण्याः परं यज्ञे न कृच्छ्रादि तपश्चरन् ॥ इतिवचनाच्च । दीक्षिणी दीक्षणीया । दीक्षितानामिति बहुवचनं सत्राभिप्रायेण । इदमपि प्रारम्भी- त्तरमेव । प्रारब्धे सूतक न स्यादनारब्धे तु सूतकम् ॥ इतिवाक्यात् । अत्रापि प्रारम्मशब्दार्थः प्रारम्मो वरणं यज्ञ इतिवचनसिद्धवरणात्मक एव । संकल्पोत्तरं वरणात्प्राक्चेत्तदा विराम एव । नान्दीश्राद्धं तु पूर्वकृतमेवैकविंशतिदिन- पर्यन्तमुपयोगाय भवति । एकविंशत्यहयज्ञे विवाहे दश वासराः । त्रिषट्चौलोपनयने नान्दीश्राद्धं विधीयते ॥ इतिवचनात् । दीक्षितस्य ववमृथात्प्रागकर्मकालेऽप्याशौचाभाव एवं । तद्वद्गृहीतदीक्षस्य विद्यस्य महामखे । स्नानं त्ववभूधे यावत्तावत्तस्य न सूतकम् ॥ इतिवचनात् । सत्रिवतिब्रह्मचार्यादिसघःशौचवदिति तद्वदित्यस्यार्थः । गृहीता दीक्षा येन स दीलित इति यावत् । दीक्षणीयायागोत्तर दीक्षितत्वमिति प्रागुक्तमेव । व्यवयवा विद्या त्रिविद्या तामधीते वेद वा स विद्यो वेदत्रयाध्यायी तत्प्रतिपाद्यकर्मत्रयज्ञानवान्वा । एतादृशो यजमानो भवेत्तस्य - महामखेऽग्निष्टोमादिरूपेऽवभृथस्नानं यावत्पर्यन्तं न निर्वृत्तं तावत्पर्यन्तं तस्य यागकर्तन सूतकमित्यर्थः । तद्वदित्यनेनः सद्यःशौचमति- दिश्यते । तेनाकमकालेऽप्याशोधाभावः सिध्यति । गृहीतवीक्षत्वस्यामृथस्नानकर्तृ. स्वस्य च चातुर्मास्यसौत्रामण्यादावपि सत्त्वादतिव्याप्तिः स्यात्तां वारयितुं महामख इति । गृहीतदीक्षस्येत्यनेन पूर्वावधिः प्रश्यते । तेनैतन्मध्य एवाकर्मकालेऽपि आशौचाभावों नत्वमाभ्यां पूर्वम् । ननु गृहीतदोलस्येत्येतावदेवास्तु चातुर्मास्यसौत्रा-