पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००६ सत्याषाढविरचितं श्रौतसूत्रं- [१९दशमपन्ने- रेदित्याश्वलायनसूत्रात्, पुनः पुनर्यज्ञ इति च्छन्दोगसूत्रात्, अथैतेऽर्या अस्विकश्व- शरपितृव्यमातुलाचार्या राना स्नातकः प्रियागतोऽतिथिरिति संवत्सरं पर्यागम्य एतेभ्य एव कुर्याद्विवाहे वरायाविभ्यः कर्मणि कर्मणि पदातीति बौधायनसूत्रात् ।

असंपूज्य कारयेच्चेत्किल्बिषेण स युज्यते ।

इति विश्वामित्रेण मधुपर्कपूनाया अकरणे दोषश्नवणाच प्रतियज्ञम् । संवत्सरोत्तरं देवभूतपितृभूतानामेवविना कर्मव्यतिरिक्तकाल उपस्थितिः संभवति न मनुष्यभूतानां कर्मन्यतिरिक्तकाल एतेषामूस्विक्त्वासंभवात् । वैजवापमते होत्रादिषु चतुर्वात्विज्य- समावेशात्तदशवर्तिनी पुत्रादीनामाशीचपातेऽन्ये तदीया आगमयितव्या इति । इर्द घ देवभूतपितृभूतविपक्षे द्रष्टव्यम् । ऋत्विङ्मरणप्रयुक्तमाशौचं याज्ये यत्स्मृता- युक्तं तद्देवभूतपितृभूतविषयकमेव । एवं याज्यमरणप्रयुक्तमाशौचं देवभूतपितृभूतेष्वेव- विक्षु इति द्रष्टव्यम् । मुस्विनामाशौचाभावो मधुपर्कोत्तरमेव । गृहीतमधुपर्कस्य यजमानात्तु ऋत्विजः । पश्चादाशीचे पतित न मोदिति निश्चयः ॥ इति ब्राह्मात् । यत्र मधुपर्को नास्ति तत्राऽऽशौचमस्त्येवेति स्वर्थात् । तत्राऽऽधानेष्टिपशुबन्धास मधुपर्को नैव किंतु ज्योतिष्टोमादावेव स इति केचित् । समन्त्रकवरणस्य ज्योतिष्टो. मादावेव सत्त्वान्मधुपर्कः, आधाष्टिपशुबन्धःो समन्त्रकवरणामावान्न स इत्येतन्मता- शयः । सर्वत्रापि मधुपर्क इति केषांचिन्मतम् । समन्त्रकवरणस्यैव मधुपर्कनिमित्तत्वे प्रमाणाभाव इत्येतन्मताशयः। तुच्छमेतन्मतं समन्त्रकवरणसंबद्ध एव मधुपर्क इति प्रद- शयितुमेवत्विनो वृत्वेत्यनुवादकरणात्प्रयोजनान्तरस्य चासंभवात् । महादानादौ मधु- पर्कस्तु वाचनिकः । वैखानसेनाऽऽधानेऽपि मधुपर्क उक्तः सोऽपि वाचनिक एव । किमिव वचनं न कुर्यान्नास्ति वचनस्यातिभार इति । प्रारम्भो वरणं यज्ञ संकल्सो व्रतसत्रयोः। नान्दीश्राद्धं विवाहादौ श्नाद्धे पाकपरिक्रिया । इति वचने यद्यपि वरणस्यैवं केवलमाशौचाभावहेतुत्वं प्रतीयते तथाऽपि वरणमधु- पर्कयोः संबद्धन्वावरणशब्देन मधुपर्कोऽपि गृह्यते । नातो गृहीतमधुपर्कस्येति बाण. विरोधः । अयं चत्विजामाशौचामावो यावत्कर्म तावदेव । ऋविना दीक्षितानां च यज्ञिय कर्म कुर्वताम् । सत्रित्रतिब्रह्मचारिदातृब्रह्मविदां तया ॥ दाने विवाहे यज्ञे च समामे देशविप्नवे। आपद्यपि च कष्टायां सद्यः विधीयते । इति वचनात् ।