पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- १०दशमप्रमे- नचेयं संजोत्पत्तौ श्रूयते वरणाभावेन शमितुरध्वदिवदुत्पत्तैरभावात्तस्मान्न केवलम- ज्ञाऽन्न भेदिकेति भावः । सूत्रार्थस्तु शमिता चस्विरम्यो भिन्नः शमितेतिशब्दमेदात्म. करणाद्वा । वाशब्दः पूर्वपक्षव्यावर्तकः। प्रकरणमाध्वर्यवप्रकरणे शमिता पशकण्ठे निगृह्णातीति । उत्पत्त्यसंयोग्यं च बाह्मणाभावे । कलौ तु शामित्रं चैव विप्राणामिति शामित्रकर्मकरणनिषेधाच्छूद्र एव । ध्रुवग्रहसंरक्षणकर्ता ध्रुवगोपः । स प राजपत्र इति सूत्रकारेण प्रागेयोक्तम् । अतः क्षत्रियो दोग्धा व्रतप्रवीद्यर्थ दोहनकर्ता । स च ब्राह्मणः शूद्रो वा । अग्निहोत्रमेव न दुह्याच्छुद्र इत्यग्निहोत्रसंबन्धिदोहन एवं शनिषेधादन्यत्रानियमः । अयं च शूद्रो गोप एव । स्मृतौ सच्छूद्रौ गोपनापिसाविति तस्य सामान्यतः समीचीनत्वोक्तेस्तवृत्तित्वाच । ब्राह्मणो दोहकर्ता चेत्समीचीनत. रमेव । सोमविक्रयी कौत्सः शूद्रो वेति सूत्रकारेण प्रागुक्तमेव । सोमविक्रयणं तथेति कलौ सोमविक्रयस्यापि निषेधाच्छद एवेदानीम् । अयं च ऋत्विग्व्यतिरिक्त एवेत्युक्तमेव प्राक् । हविष्पेषणार्थी स्त्री ब्राह्मणी दासी वा । अग्नीषोमीया- थेमवहनार्थीऽग्नीषोमीयार्थबहिहिनार्थी च रुयेव ब्राह्मणी । प्रसर्पन्तीति प्रप्त- पका यज्ञेऽर्थसंशये निर्णायकाः । एते ब्राह्मणा एव दक्षिणाप्रतिग्रहीतृत्वात् । तेषामुपवेशनस्थानं तु यावत्पर्यन्तं प्राग्वंशे कर्म तावत्पर्यन्तं प्राग्वंश एव । अग्निपण- यनप्रभृति तत्तत्समीपप्रदेश एव । यत्र यज्ञे शिष्टा विद्वांस उपविशन्ति सैक यज्ञसमे. न्युच्यते । तदुक्तं राजधर्मेषु- सभास्तु तिस्रो विज्ञेया धर्मस्यैका च कर्मणः। तथा रामसमेत्येता विद्वद्भिः परिकीर्तिताः ॥ इति । धर्मशब्देन व्यवहारः प्रायश्चित्तं चोच्यते । तदर्थ या कल्पिता शाला सा धर्मस्थ सभा । इयमेका सभा। च परं कर्मार्थ यज्ञादिकीय या शाला सा कर्मसभेत्युच्यते । इयं द्वितीया । राना यत्र विप्रैः परिचारकैर्भटादिमिश्च सहित उपविशति सा शाला राज- समेत्युच्यते । इयं तृतीया सभा । एतास्तिस्रः सभा विद्वद्भिपिभिः परिकीर्तिताः कथिता इत्यर्थः । सभासत्संख्योक्ता बृहस्पतिना- लोकवेदज्ञधर्मज्ञाः सप्त पञ्च त्रयोऽपि वा । यत्रोपविष्टा विप्राः स्युः सा यज्ञसदशी समा ॥ इति । स्मृत्यन्तरेऽपि-पत्र धर्म विनिर्गत विद्वांसश्चतुरादयः । उपविष्टा भवेयुश्चेत्तदा ज्ञेया समेति सा || इति । पज्ञार्थशालोपविष्टा विद्वांसः शिष्टा ब्राह्मणा अत्र प्रसर्प कशब्देनोच्यन्ते । ते च विप्रभू तर्य इति द्रष्टव्यम् । यज्ञमारम्याऽऽन्तं शालायां नियमेनतरुपवेशनं कर्तव्यं कर्म साक्ष्या- क. 'रणं श।