पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५०पटलः] गोपीनाथमट्टकृतज्योत्साव्याख्यासमेतम् । १००३ इति करिष्यन्प्रतिमन्नयेतेति । भारद्वाजमतात्त्वयाजयिष्यतोऽपि जपो नित्यः । पशुपालः प्रेष्या धाता शमिता ध्रुवगोपो दोग्या सोमविक्रयी हविष्येषणार्थं का स्त्री, अग्नीपोमी. यार्थे मावहिनयनाथै द्वे, प्रसपका उपगातारश्चेत्यत्रैवोपकल्पयितव्याः । आलब्धव्यानां पशूनां दक्षिणार्थगवादिप्राणिद्रव्याणां दोहार्थीनां गवां राजवहनार्थानडुहोश्च संरक्षण- कर्ता पशुपालः । वैश्योऽयम् । तद्वृत्तित्वात् । प्रेष्याः प्रेषार्थकारः सनीहारादयो व्रतप्रदातारः परिकर्मिणश्च । सनि याञ्चालब्धं धनं तो हरन्ति ते सनोहाराः । एतेन ज्ञायते पूर्वमेव क्रत्वर्थ द्रव्यं याचितं भवति । ब्राह्मणाः क्षत्रिया वैश्या वैते । सनी- हारविषये विशेष उक्तो द्वैधे बौधायनेन-अथ सनीहारान्प्रहिणोतीत्यन्यत्रोप्रशूद्रयो. रिति बौधायनोऽन्यत्रोग्रेरिति शालीकिः सर्वान्यज्ञसिद्धय इत्यौपमन्यव इति । धाता यतसामग्रीरक्षको ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा । शमिता पशुसंज्ञपनकर्ता । स च बाह्मणः शूद्रो वा। बाहुं शमित्र तं स ब्राह्मणाय ददाति यद्यबाह्मणो भवतीतिसूत्रात् । बाहं शमित्र यनमानो ददाति । तं बाहुं स शमिता ब्राह्मणाय ददाति यदि स्वयम- ब्राह्मणो भवतीति सूत्रार्थः । एतस्मादेव लिङ्कात्विग्व्यतिरिक्त एवायम् । पराङावर्त- तेऽध्वर्युः पशोः संज्ञप्यमानादिति वचनादध्वयोरसा मदिध्वर्युपुरुषाणां मध्य एकस्य द्वयोः सर्वेषां वा कार्यानुसारेण पशुसंज्ञपनकर्तत्वम् । तत्रैकश्चमतिप्रस्थातव संनि- हितत्वावौ चेत्प्रतिप्रस्थातृनेष्टारौ त्रयश्चेदुन्नेता चेति द्रष्टव्यमिति नैमिनिमतम् । तथा च तृतीयाध्याये सप्तमे पादे तत्सूत्रे शमिता च शब्दमेदात् । शमयति पशु हिनस्तीति शमितृशब्दार्थः । अत्र यद्यपि शामित्रस्याऽऽध्वर्यवसमाख्यानादध्वरेव शभितृत्वं युक्तं तथाऽपि संज्ञप्यमानात्पशोरध्वयोः पराङावृत्तिवचनेन तस्य शमितृत्वा नुपपत्तेस्तत्प्रत्यासन्नः प्रतिप्रस्थात्रादिः कश्चिच्छमिता भवतीति । नचैवं क्लोम चा वैकर्तनं च शमितुस्तह्राह्मणाय दद्याद्यद्यब्राह्मणः स्यादितिवचनविरोध इति वाच्यम् । यदि यजमानोऽब्राह्मणः क्षत्रियादिः स्यादित्यर्थकरणेन विरोधाभावात् । नचैवं शामित्र चैव विप्राणामितिनिषेधकत्रैवर्णिकः शमितेति कुलालः शमितेतिविधायकवचनद्वयवि- रोध इति वाच्यम् । एतासां स्मृतीनामध्वर्युपुरुषासंभव एव प्रवृत्तिसंभवेन विरोधपरि- हारस्य कर्तुं शक्यत्वात् । तत्र ऋत्विनः शमिता ध्रुवगोपो दोग्धा सोमविक्रयीति सूत्रकृतैव प्रदर्शितास्तेषामुपकल्पनं सिद्धमेव । आपस्तम्बभरद्वाजादिभिरुपगातॄणामप्यु. क्तत्वात्तेषामप्युपकल्पनं सिद्धमेव । इतरेषां तूपकल्पने याज्ञिकमतेऽपि न नियम इति द्रष्टव्यम् । ध्रुवगोपस्तु मीमांसकमतेऽपि राजपुत्रो गोपायतीतिवचनादन्य एव । एवं च तस्योपकल्पनं नियतम् । शमितुम्तु याज्ञिकमत उपकल्पनं न मीमांसकमते । बिहि. तत्वाद्दोग्धुरपि उपकल्पनम् । सोमविक्रयिणः कर्मान्तःपातित्वात्तस्य सर्वमतेऽन्यत्- चोपकल्पनम् । पशुपालादीनामुपकल्पने विकल्पगात् (१) शमितुरध्वादिवदुत्पत्ते- रभावादुत्पत्तिकालिक संज्ञासंबन्धाभावादिति । नहि संज्ञामात्रं भेदकं किंतूत्पत्ती श्रुता ।