पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००२ सत्यापाढविरचितं श्रौतसूत्रं- [१०दशमप्र- प्रतिप्रस्थात्रादीनां वरणम् । ततश्चमप्तावYणां, गौणचमसाध्वत्विगपेक्षया प्रति- प्रस्थात्रादीनां मुख्यात्विक्त्वेन तेषामेव पूर्ववरणस्य युक्तत्वात् । राज्ञः पूजनानन्तर- मृत्विना निमन्त्रणार्थ सोमप्रवाकोऽवश्यं वरणीयः । सोममृत्विग्म्य आविज्यप्रवृ- त्यनुकूलव्यापारं निश्चेतुं वक्तीति सोमप्रवाकः । एतस्मादेव नाम्नः सोमवाकप्रयोजन- मवगतं भवति । साद्यस्केष्वश्वरथाः संक्षारहतयः । सप्तोमप्रवाका विधावन्तीति लिङ्गमपि सोमप्रवाकसत्त्वे । लाट्यायनद्राह्मायणमाद्वानाश्वलायनैनित्यमेवाम्नातश्वास्ति । अतः सोमप्रवाक झविनामामन्त्रणार्थमवश्यं वरणीयः । स च तूष्णीमेव मन्त्रानुपदे- शात् । तस्य गन्धादिभिः पूननं तस्मै यथाशक्ति दक्षिणादानं च । दक्षिणाकाले वा दक्षिणादानम् । सोमप्रयाकवरणादिप्रयोग इत्यम्-राजपूजनानन्तरमस्मिन्क्रती त्वं सोमप्रवाको भवेति वृत्वा बाढमिति तेनोक्त तं गन्धवस्त्रादिभिः संपूज्य सोमप्रवाकाऽऽ. येभ्य ऋविग्भ्यः सोमं प्रबहीति यजमानस्तमाह । यजमानप्रहितः सोमप्रवाकस्तं तं यथोक्तगुणमुपेत्य सर्वान्य जमानगृहं प्रत्यानीय तत्राऽऽमन्त्रणं कुर्यात् । तत्राऽऽम प्रणवाक्यमित्थम् -अमुकशर्मणः सोमो भविष्यति तत्रभवता होत्रं कर्तव्यमाध्वर्यवं कर्तव्यं ब्रह्मत्वं कर्तव्यमौद्गात्रं कर्तव्यं प्रशास्त्रीय प्रतिप्रस्थात्रं ब्राह्मणाच्छंसीय प्रास्तो- प्रमच्छावाकीय नेष्ट्रीयमानीधीय प्रातिहत्रं ग्रावस्तुतीयमा नेत्रं पोत्रीय सौब्रह्मण्यं कर्त- व्यमिति सदस्यपक्षे सादस्यमिति । होत्राभ्यछ इत्यस्मिन्सूत्रे होत्राशब्देन होत्रका एव गृह्यन्ते । तथा च प्रशास्तृब्राह्मणाच्छसिपोतनेष्ट्रच्छावाकानोऽभ्य एव च्छप्रत्ययो न प्रतिप्रस्थातृप्रस्तोतृप्रतिहर्बुन्नेतृसुब्रह्मण्यम्यः । ग्रावस्तुच्छब्दात्तु वृद्धाच्छ इत्यनेन च्छप्रत्ययः। ब्रह्मशब्दात्तु ब्रह्मणस्त्व इति सूत्रेण त्वप्रत्ययः । होत्रध्वर्यद्गातृशब्देभ्यस्तु सामान्यतोऽणेवेति द्रष्टव्यम् । तत्र को यज्ञः क ऋत्विजः का दक्षिणेत्येकः प्रश्नप्रकार आपस्तम्बाश्वलायनायुक्तः । प्रत्युत्तरवाक्येप्वाश्वलायनेन विशेष उक्तः कल्याणैः सह संप्रयोग इति । कल्याणोऽमुको यज्ञः कल्याणा अमुकशर्मादय विजः कल्यायो गावो दक्षिणेति । अन्यः प्रश्नप्रकार आपस्तम्बेनोक्तः-तं पृच्छति क ऋत्विजः के याजयन्ति कच्चिन्नाहीनः कचिन्न न्यस्तमाविज्यं कच्चित्कल्याण्यो दक्षिणा इति च्छन्दो- गब्राह्मणं भवतीति । अत्र विकल्पं सूचयितुं छन्दोगबामणग्रहणम् । ऋत्विपरीक्षा तावत्पतितयाजित्वादियजमानदोषशङ्कानिरालार्था । वर्तमानस्विपरीक्षाऽपि संभक्षणान- हत्वशङ्कानिरासार्या । अहीनदक्षिणापरीक्षा तु अल्पदक्षिणे ऋतावहीने च याजननिषेधा- देव । यथोक्तमाश्वलायनेन न्यस्तमाविज्यमकार्यमहीनस्य नीचदक्षिणस्येति । अप्रश्नप. क्षेऽपि परीक्षाऽऽवश्यक्येव । आत्विज्याकरणे प्रत्याख्यानप्रकार उक्तो लाट्यायन- द्राशायणाभ्यां सोमप्रवाकमकरिष्यन्नमः सोमाय राज्ञ इति प्रत्याचक्षीत महन्मेऽवोच 1 "१च. सक्षार