पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१प्र०पटकः] गोपीनाथभट्टकृतज्योत्साय्याख्यासमेतम् । १००१ सोमप्रवाकद्वारा वरणमुक्तं तहानवाचनान्वारम्मणवरवरणवतप्रमाणेषु यजमानं प्रतीया. दितिकात्यायनसूत्रविरोधादुपेक्ष्यम् । नचैवं मन्त्रगतस्तच्छन्देन परोक्षनिर्देशोऽसंगतः स्यादिति वाच्यम् । तच्छब्देन देव्यं होतारमनि परामृश्य युष्मच्छब्दार्थ मनस्यनुसंधाय गच्छब्दार्थयुष्मच्छब्दार्थयोरभेदेन तं दैव्यं होतारमाभं स्वामेवाहं वृण इत्येतादृशा- सिद्धावसंगतत्वपरिहारसंभवात् । एवं च कात्यायनसूत्रविरोधः परितो भवति । भदःशब्दस्तु तत्तन्नामग्रहणार्थ प्रयुक्तः । विहितं चाप्ताविति नाम गृह्णातीत्यावेदन- प्रकरणस्थेन सूत्रेणादाशब्दस्याने नामग्रहणम् । होत्रध्वर्युब्रह्मोद्गातृशब्दार्थः प्रागेव दशितः। सदसि भवः सदस्यः । अत्र भवनं सत्ता विद्यमानत्वमिति यावत् ! योगरूढं पदम् । दिगादित्वायत्प्रत्ययः । अनेन सदस्यशब्देन सदस्यतस्योपवेशनमिति बोध्यते । अथ वा सदसि साधुस्तस्यै हितो वा सदस्य इति । सदाशब्देनात्र सदोमण्डपत्र- स्कृत्स्नं कर्म लक्ष्यते । तदृष्टुत्वात्साधुत्वं हितत्वं वा दृष्टव्यम् । होत्रं हवनसाधनं वपटकारस्तमा उच्चैः शंसन्ति वदन्तीति होत्राशसिनः । नच होतरि स्वयं निषध यजत इत्यस्मिन्पक्षे यनमानाध्वर्योश्चातिप्रसङ्गः । होत्रकवरण एव होत्राशंसिवरणम- त्रस्योक्तत्वेन मैत्रावरुणो ब्राह्मणाच्छसी पोता नेष्टाऽच्छावाक आनीधश्च होत्रका इत्यनेन मैत्रावरुणादिषु षट्स्वेव होत्रकशब्दप्रवृत्तेर्दर्शितत्वेन होतरि यजमानावों श्वातिप्रसङ्गामावात् । तथा च होतृयजमानाध्वयंणां न होत्राशसिंशब्देन ग्रहणम् । एतेन होतृयजमानाचणां स्वस्वमन्त्रेण वृतत्वेऽपि होत्राशंसिलिङ्गकमन्त्रसं- स्कारसिम्यर्थं पुनर्वरणमिति शङ्काऽपि. निरस्ता भवति अमी इतिशब्दोऽद:- शब्दस्य प्रथमाबहुवचनम् । अमी इत्येतस्य शब्दस्य स्थाने समासेन प्रथमाब- हुवचनेन शर्मान्तानि नामानि षण्णां होत्रक क्रमेण गृहीत्वा मानुषास्तान्होत्राशसि. नीर्वृण इति वृणुयात् । यथा केशवशर्भनारायणशर्ममाधवशर्मगोविन्दशर्मविष्णुशर्म- कृष्णशर्माणो मानुषास्तान्होत्राशसिनीण इति । सर्वान्त वा शर्मशन्दः सकृदेव । मैत्रावरुणो ब्राह्मणाच्छेसी पोता नेष्टाऽच्छावाक आशोध इत्येवं क्रमोऽत्रानुसंधातव्यः । एवं च (१) इतिबहुवचनान्तो युष्मदर्थश्च । एवं चमसाध्वर्युवरणमन्त्रेऽपि द्रष्टव्यम् । अत्रापि होत्रध्वर्युब्रह्मोद्गातृयनमानसदस्यमैत्रावरुणब्राह्मणाच्छसिपोतनेष्ट्रच्छावाकानीमा इत्येवं चमसाध्वर्युवरणे कमो ग्राह्यः । नमससंबन्धिनोऽध्वर्यवश्चमसाध्वर्थवः । धार्यधार- कभावरूपोऽत्र संबन्धः । तच्च धारणं होमाद्यर्थम् । प्रतिप्रस्थात्रादीनां तु तत्तन्मुख्यात्वि- व्यन्त्रेण । तत्र प्रतिप्रस्थातुरध्वर्युमन्त्रेण, प्रस्तोतूरुद्गातृमन्त्रेण, प्रतिहतुरुदातृमन्त्रेण, ग्राव- स्तोतु)तृमन्त्रेण, उन्नेतुरध्वर्युमन्त्रण, सुब्रह्मण्यस्योद्भातृमन्त्रेणेति प्रतिप्रस्थात्रादीनामध्व- वादिशब्दरेव वरणम् । नच प्रतिप्रस्थात्रादिपरिज्ञानार्थमध्वर्यादिशब्दोत्तरं प्रतिप्रस्था- त्रादिशब्दप्रयोगोऽप्यस्त्विति वाच्यम् । प्रतिप्रस्थात्रादिपरिज्ञानस्य लौकिकवरणेनैव मातरवेन मन्त्रस्वरूमविघटकाधिकशब्दप्रयोगस्याप्रयोजकत्वात् । होत्रकवरणानन्तरं