पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(९-१० प्रश्नाः) Satyaashada Srautasutra.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१००० सत्याषाढविरचितं श्रीतसूत्र- [१ दशमप्र-

अग्निर्देवो दैव्यो होता स मे होताऽस्त्वित्युपाꣳशु दैव्यꣳ होतारं वृणीतेऽसौ मानुषस्तꣳ होतारं वृण इत्युच्चैर्मानुषम् ।

दैव्यं देवसंबन्धिन, मानुषं मनुष्यसंबन्धिनम् । असाविति यः शब्दस्तस्य स्थाने होतुः पित्रादिभिर्यव्यवहाराय नाम कृतं तद्गृह्णाति । तच्च शर्मान्तं शर्मान्तं ब्राह्मण- स्येति बौधायनोक्तेः शर्मान्तं ब्राह्मणस्य येन व्यवड़ियत इति वासिष्ठसूत्राच्च । येन व्यवहियत इति नाक्षत्रादिनाम्नां शर्मान्तताया व्यावृत्त्यर्थम् । वरणं नाम संमानना- म्यर्धनपूर्वकं स्वकर्तव्यकर्मणि आत्विज्यकरणानुकूलप्रवृत्तिसंपादने, तत्र समन्बकत्वं संस्कारविशेषार्थम् । अग्निदेवो दैव्यों होता स मे होताऽस्त्विति दैव्यहोतृवरणमन्त्रः । असौ मानुषस्त होतारं वृण इति मानुषहोतृवरणमन्त्रः । लिङ्गादेव देव्यहोतृवरणा. थत्वे पूर्वमन्त्रस्य सेत्स्यति सति पुनर्वचनं हेतु प्रदर्शनार्थं यतो दैव्यों होताऽत उपांशु वृणीत इति । एवमुच्चैर्मानुषमित्यत्रापि । यद्यप्युपांशुशवस्य दैव्यहोतृवरणेऽन्वयः प्रतीयते तथाऽपि उपांशुशब्दस्य स्वरपरत्वात्तस्य च मन्त्रधर्मत्वावरणरूपक्रियाया- मन्वयासंभवेन वरणरूपक्रियाकरणीभूते मन्त्रेऽन्वयो ज्ञेयः । तथा चैवं वाक्यं भवति अभिर्देव इति मन्त्रमुपांशूक्त्वा दैव्यं होतारं वृणीत इति । एवमुत्तरत्रापि ।

एवमितरेषूपाꣳशु दैव्यं वृणीत उच्चैर्मानुषम् ।

एवमितरेध्वित्येतावतैव देव्यमानुषवरणसिद्धौ दैव्यं वृणीते मानुषमिति पुनर्वचनं दर्शपूर्णमासादिष्वमन्त्रकवरणेऽयमेव दैव्योऽग्निर्होता मानुषश्चेत्यभिध्यानपूर्वकत्वमाव- श्यकमितिज्ञापनार्थम् । एवमितरेषु दैव्यं वृणीते मानुषं चेत्येतावत्युच्यमान उपांशु- स्खोवैष्ठयोनिवृत्तिः स्यात्तां वारयितुं तयोर्वचनम् । इतरेषु अध्वर्वादिषु ऋत्विक्षु ।

आदित्यो देवो दैव्योऽध्वर्युः स मेऽध्वर्युरस्त्वसौ मानुषस्तमध्वर्युं वृण इत्यध्वर्युं चन्द्रमा देवो दैव्यो ब्रह्मा स मे ब्रह्माऽस्त्वसौ मानुषस्तं ब्रह्माणं वृण इति ब्रह्माणं पर्जन्यो देवौ दैव्य उद्गाता स म उद्गाताऽस्त्वसौ मानुषस्तमुद्गातारं वृण इत्युद्गातारमाकाशो देवो दैव्यः सदस्यः स मे सदस्योऽस्त्वसौ मानुषस्तꣳ सदस्यं वृण इति सदस्यमापो देवीर्दैव्या होत्राशꣳसिन्यस्ता मे होत्राशꣳसिन्यः सन्त्वमी मानुषास्तान्होत्राशꣳसिनीर्वृण इति होत्रकान्रश्मयो देवा दैव्याश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवः सन्त्वमी मानुषास्तान् चमसाध्वर्यून्वृण इति चमसाध्वर्यून् ॥ १ ॥

मन्त्रेषु तं वृण इति परोक्षनिर्देशाल्लिङ्गाहरणं किंचिद्वारकं न साक्षादिति गम्यते । घोपस्थितत्वात्सोमप्रवाक एवेत्यभिप्रायेण भाष्यकारेण तदनुयापिमिः प्रयोगकारक