पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ द्वि पटलः ] गोपीनाथभट्टकृतज्योत्साव्याख्यासमेतम् । सममिव्याहारानोपरामर्शसिद्धौ गोरितिग्रहणमनित्योऽयमवयवशः क्रय इतिज्ञापना- थम् । यत्कलया ते शफेन ते कोणानीति पणेतेति कलाशफाभ्यामवयवक्रयं निन्दित्वा गवा ते कोणानीत्येव ब्रूयादितिसमुदायक्रय एव ब्राह्मणे प्रस्तुतः । अवयवक्रयस्तु शाखान्तरीय उक्तः । ब्राह्मणे कलाशफयोर्ग्रहणं कुष्ठ(छा)पादयोरुपलक्षणम् ।

भूयो वाऽतः सोमो राजाऽर्हतीति सोमविक्रय्या संपदः प्रत्याह ।

मन्त्रे वाशब्दोऽवधारणे। भूयो वाऽत इति यात्रारूपं वाक्यम् । आ क्रयसंपदः सोमविक्री प्रति अध्वर्वभिमुखो भूत्वाऽऽह । संपद इति पञ्चम्येकवचनम् । आ संपद इति वचनाद्दशभिः क्रोणातीति पक्षे वशम्यां व्यक्तौ नैतत् । त्रयोदशपक्षे त्रयोदश्याम् । एवमन्यसंख्यास्वपि द्रष्टव्यम् ।

भूय एवार्हतीत्यध्वर्युः ।

प्रतिब्यादिति शेषः ।

शुक्रं ते शुक्रेण क्रीणामीति हिरण्यम् ।

सोम ते क्रीणामीति मन्त्रमभिमातिषाहमित्यन्तमुक्त्वा शुक्र ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतममृतेनेति हिरण्यं प्रयच्छतीत्यर्थः । केचित्तु अमृतेनेत्यन्ते हिरण्येन ते क्रीणामीत्यनुषजन्ति ।

तपसस्तनूरसीत्यजाम् ।

अभिमातिषाहमित्यन्ते तपसस्तनूरति प्रजापतेर्वर्णस्तस्यास्ते सहस्रपोष पुष्यन्त्याश्च- रमेण पशुना क्रीणामीत्यनां प्रयच्छति । पशुना क्रीणाम्यजया ते क्रीणामीति केचिद. त्रानुष नन्ति । प्रतीचीनग्रीवयाऽनया पणत इति बौधायनो द्वैधे । अजाया उपनिग्रहण इति सूत्रं बौधायनस्यानुपनिगृह्णलेवानां मन्नं जपेदिति शालीकिरिति । उपनिग्रहण सोमविक्रयिणः समीपे स्वकक्षाप्रदेशेन गतिरोधनार्थ तस्या दाढर्येन संश्लेषणविशिष्टं धारणम् । उपनिग्रहणाभावेऽपि केवलं नियमन तु भवत्येव ।

धेन्वा ते क्रीणामीति धेनुम् ।

अभिमातिषाहमित्यन्ते वनसेन ते कोणामीत्येतावता मन्त्रेण धेनुं प्रयच्छति । अमि- मातिषाहमित्यन्ते वत्सेन ते कोणामीति वत्सम् । यद्यपि वत्सः सूत्रकृता नोक्तस्त- थाऽपि गुणभूतस्यापि तस्याऽऽक्षेपाल्लाभः । अन्यथा धेनोवत्सस्य स्तनंधयस्य जीव- नानुपपत्तेः, दश संपद्यन्त इति श्रुतिविरोधापत्तेः, दशमिः क्रीणातीति सत गाव इति संख्यापरिगणनाभ्यां विरोधापत्तेश्चेति । ननु विहितधेनुप्रदानानन्तरमन्या धेनुरेव दश. संख्यासंपत्त्यर्थं क्रयसाधनत्वेन देया तस्या अभ्यार्षिकमेव सवत्सत्वम् । एवं च धेनो- वत्सस्य धेनुसहभावेऽपि संख्यासंपत्तिस्तद्वरसेन न भवति गुणभूतवत्सस्य क्रयसाधनत्व- कल्पनापेक्षयाऽन्यधेन्वा एव ऋयसाधनत्वकल्पनाया युक्तस्यादिति चेन्न । तथा सत्यपि