सामग्री पर जाएँ

पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.६४० सत्वाषाढविरचितं श्रौतसूत्रं- [सप्तमप्र- धेन्वा ते क्रीयामीति धेनुं वरसेन ते क्रीणामीति तस्या एव धेनोवत्समिति सूत्रान्तरे धेनुप्रदानानन्तरं तद्वत्सस्यैव क्रयसाधनत्वेनोपात्तत्वेन सूत्रान्तरानुरोधेन दशसंख्यासंप- त्यर्थ कयसाधनत्वेन वत्सोपादानस्यैव युक्ततरत्वात् । तस्मात्सूत्रान्तरानुरोधाद्धेनोवत्स एव गोषु परिगणनीयः । दश संपद्यन्त इतिश्रुतितोऽप्ययमों लभ्यते । कथमिति । चेदुच्यते-यत्कलया त इत्यनुवाके नव द्रव्याण्युक्त्वा दश संपद्यन्त इति वचनान्नव- द्रव्येष्वेवाऽऽधिकं दशम द्रव्यमप्यस्तीति ज्ञायते । तच्च धेनोर्नवप्रसूतत्वेन तद्वत्सस्य जीवनान्यथानुपपत्त्या तस्यैव ग्रहणादुपस्थितत्वाच्च धेनुवत्सात्मकमेव । मिथुनगोद्वया- तर्गतगोवत्सस्य तु स्तनधयत्व मातृसहभावेनैव दानं न स्वतन्त्रतयेति । अतो धेनुवत्सेनैव दशत्वसंपत्तिर्द्रष्टव्या।

ऋषभेण ते क्रीणामीत्यृषभं वत्सतरेण साण्डेनेत्येकेषाम् ।

अभिमातिषाहमित्यन्त ऋषमेण ते क्रीणामीत्वृषभम् । एकेपामाचार्याणां मत ऋष- मस्थाने साण्डेन वत्सतरेण क्रयः । स्तनपानोपरतो वत्सो वत्सतरः । साण्ड इत्यनेन घलिष्ठत्वं द्योत्यते । वत्साक्षावर्षमेभ्यश्च तनुत्व इति ष्टरच्प्रत्ययः । अमिमातिषाहन 1 मित्यन्ते साण्डेन वत्सतरेण ते कोणामीति मन्त्रः ।

अनडुहा ते क्रीणामीत्यनड्वाहम् ।

अनड्वाशकटवाही बलीवर्दः । अभिमातिषाहमित्यन्तेऽनङहा ते कोणामीत्यन- ड्वाहम् ।

मिथुनाभ्यां गोभ्यां क्रीणामीति मिथुनौ गावौ ।

पुंगौः स्त्रीगौश्च मिथुनौ नतु पुंगोद्वयं स्त्रीगोद्वयमिति । अन्यथा सप्त गाव इत्यनेन विरोधापत्तेः । मिथुनौ गावौ ददातीत्यत्राप्येवमेव । ब्राह्मणे मिथुनाभ्यां क्रीणातीत्यत्रा. प्येवमेव मिथुनशब्दार्थोऽभिप्रेतस्ताभ्यां युगपत्कोणातीत्यर्थः । अभिमातिषाहमित्यन्ते मिथुनाभ्यां गाभ्यां ते क्रीणामीति केचित्पठन्ति । सर्वत्र तच्छब्ददर्शनादित्याशयः । एतेषु द्रव्येषु भूयो वाऽतो भूय एवेत्यावर्तते ।

वाससा ते क्रीणामीति वासः।

अभिमातिषाहमित्यन्ते वासला ते कोणामोति वासः । अत्र न भूयो वाऽतो भूय 'एवेति । वासोऽत्र परिधानपर्याप्तम् । सोऽयं दशव्यक्तिविधिरविशेषचोदनादसति वैशे. पिकविधौ सर्वत्रोपतिष्ठते ।

दशभिः संपादयति भूयस एके सोमक्रयणानामनन्ति ॥ ७ ॥

वशत्वसंख्यासंपादनमात्रमेताभिर्दशमियक्तिमिः कर्तव्यं सोमविविपरितोषार्थ भूयो बहून्सोमवणानन्यानीवीहष्यश्वप्रभृतीनपि दद्यादित्येक आचार्या वदन्तीत्यर्थः । १२.भ्यां ते क्री।