पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र- [सप्तमप्रश्ने- - ता व्यक्तीराह-

सप्तविꣳशतिर्गावो हिरण्यं वासोऽजा च त्रीण्येतानि ।

एकविंशतिर्गावः । धेनुस्तद्वत्स ऋषमोऽनड्वान्मिथुनौ गावौ । एवं सप्तविंशतिर्गावः । हिरण्यं वासोऽजा चेत्येतानि त्रीणि द्रव्याणि । एतत्सर्व मिलित्वा त्रिंशयकयो भवन्ती- त्यर्थः । त्रीण्यतानीति प्रयोजनं पूर्ववत्रापि ज्ञेयम् ।

त्रिꣳशद्गावो भवन्त्यथैतानि त्रीणीत्येकेषाम् ।

सहस्रदक्षिणस्येत्यत्रानुवर्तते । अथशब्दप्रयोजनं पूर्ववत् । अन्यत्पूर्ववद्याख्येयम् ।

शतेन वाजपेये द्वाभ्याꣳ राजसूये सहस्रेणाश्वमेधे ।

शतेनेति पूर्वोपक्रमाच्छतशब्दस्य वचनविपरिणामेन द्वाभ्यामित्यत्रानुषङ्गः । तेन द्वाभ्यां शताम्यामित्यर्थो भवति । शतेनेत्येतत्पूर्व व्यक्तीनामिति योग्यतया शेषों द्रष्टव्यः । एवमुत्तरत्रापि । सप्तनवतिर्गावो हिरण्यादित्रयं च शतं गाव एतानि त्रीणि चेत्येवं पक्षद्वयं त्रिष्वपि ज्ञेयम् ।

सोमं ते क्रीणामीति क्रीणाति ।

सोम ते कोणामोतिमन्त्रमभिमातिषाहमित्यन्तमुक्त्वा वक्ष्यमाणैस्तत्तन्मत्रैस्तत्तत्कय- द्रव्यं निर्दिश्य प्रयच्छतीत्यर्थः ।

सोमं महान्तं बह्वर्धꣳ शोभमानमिति वोक्त्वैकैकमनुदिशति ।

सोम ते क्रीणामीत्यस्य मन्त्रस्य स्थान इमं मन्त्रमुक्ता वैकैकं द्रव्यमनुदिशति निर्दिश्य प्रयच्छतीत्यर्थः । अथवा सोमं महान्तं बर्ष शोभमानमिति वोक्त्वेति यथाश्रुत एवान्वयः । पूर्वकल्पे सोम ते कोणामि सोमं महान्तं बहुई शोभमान- मित्यनयोर्विकल्पः । उत्तरकल्पे सोमं ते कोणामीत्येतदनन्तरमेतस्यापि पाठो वैक- ल्पिक इति द्रष्टव्यम् । यथा सोमं ते कोणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमाति- पाह५ सोमं महान्तं वह्वय शोममानमित्येवमुभौ मन्त्रावुक्त्वा वक्ष्यमाणैस्तत्तन्मन्त्रस्त- त्तत्क्रयद्रव्य निर्दिश्य प्रयच्छतीत्यर्थः ।

कलया ते क्रीणानि कुष्ठया ते क्रीणानि शफेन ते क्रीणानि पदा ते क्रीणानीति गोस्त्रीन्पादान्प्रसंख्याय गवा ते क्रीणानीति गाम् ।

कला जवाया अधोमागः । कुष्ठा कलाया अधोभागः । शफः खुरः । पत्पादः । एतैर्मन्त्रैः प्रतिपादमावृत्तर्गोत्रोन्पादस्तित्तद्देशे स्पृशन्प्रसंख्याय निर्दिश्येत्यर्थः । पश्चिम- पादद्वयं दक्षिणः पूर्वपादचेति क्रमः । चतुर्थपादं यत्र कुत्रचित्स्टशन्गवा ते कोणानीति गां निर्दिशतीत्यर्थः । तस्यास्त्रीपादान्प्रसंख्खायेति तच्छब्देन गवा ते कोणानीतिमन्त्र ५