पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. २द्वि० पटलः ] गोपीनाथभट्टकृतज्योस्लाव्याख्यासमैतम् । मुत्तरः इत्यन्तं देवतादिग्विधानार्थम् । ननु पथ्या स्वस्तिमानि सोम सवितारमित्ये. कैको प्रतिदिशं यनतीत्येतावतैव प्रतिदिशं यागस्य सिद्धौ पुरस्तादित्यादिदिग्वचनं पथ्या स्वस्तिमयनन्प्रांची मेव तया दिशं प्राजानन्नित्याद्यर्थवादज्ञानावश्यकत्वद्योतना- र्थम् । पथ्यास्वस्त्यादीनां धौवमाज्यं तस्य सर्वार्थत्वात् । नन्वदिति मध्य इत्येतावदे- वास्तु चरुलामस्तु पूर्वानुवृत्त्यैव सिध्यति, एवं च हविषेति पचनं व्यर्थमिति चेन्न ।' तस्य पंञ्चानामपि तुल्यत्वख्यापनार्थत्वेन सार्थक्यात् । पञ्चाना प्राधान्यं श्रुतावप्युक्तं पञ्च देवता यजतीति । तेनाऽऽज्यहविष्काणां पथ्यास्त्रस्त्यादीनां प्रधानहविष्ट्वादुपांशु- याजविकारत्वं सिद्धं भवति । नन्वेवं पञ्चानां तुल्यत्वख्यापनार्थ घरुणेत्येव वक्तव्यं किमर्थ हविषेतिवचनमुपात्तमिति चेन्न । तस्य श्रपणोत्तरभाविनामुद्वासनान्तामं हविः- संबन्धिधर्माणामपूर्वत्वेनाप्राप्तानां प्राप्ति द्योतयितुमुपात्तत्वात् । आज्यमागशब्दः प्रकृते कर्मनामधेयम् । आज्यमागाम्यामाझ्यहविया प्रचरतीति निर्देशात् । आज्यं च निदि- ष्टमस्ति सर्वार्थत्वातच धौवं हविर्भवति । एवं च नैषां प्राकृताज्यमागकार्यभाव तेन प्रधानहवींप्येवैतानि । सूत्र भाज्यभागशब्दश्च यौगिकत्वादाज्यहविष्कत्वमेषामनवदति सरस्वत्याज्यभागा वायव्य आज्यमाग इतिवत् । उदयनीये पथ्यार स्वस्तिमुत्तमामाज्येन देवतां यजतीतिवचनादप्येषां प्रधानस्वमवगम्यते । यत्र द्विवचन निर्देशो यथाऽनुप- दावाज्यभागी जीवन्तावाज्यभागावित्यादिस्तत्रैव प्राकृताज्यभागयोः संप्रत्ययो नान्यत्र । अतः पृथगाज्यभागावपि चोदकप्राप्ती कर्तव्यो । आश्वलायनीयहौत्रे पोर्णमासेनष्टि- पशुसोमा उपदिष्टा इति सूत्राबार्बनौ । याजुषहौत्रेऽपि पौर्णमासतन्त्रत्वाद्वानावेव । प्रधानदेवतायाज्यानुवाक्यास्त्वाश्वलायनोक्ता एव । नचाग्निसोमसवित्रदितिदेवतालिङ्ग- कानां महीनां याज्यानुवाक्यानां स्वशाखायां सत्तात्स्वशाखास्थानामेव यासां कासांचि. ग्रहणम् । पथ्यास्वस्तिदेवतालिङ्गकयाज्यानुवाक्ययोरमावात्तावतो(त्यो राश्वलायनो- क्तयोरेव ग्रहणमिति वाच्यम् । स्वसूत्रे प्रायणीयाप्रयुक्तयाज्यानुवाक्यानामविहितत्वे- नाऽऽश्वलायनेन विहितत्वेनाविहितविहितानां मध्ये विहितानामेव ग्रहणस्य युक्तत्वात् । हौत्रशास्त्रविषये स्वसूत्रे वचनामाव आश्वलायनोक्तस्यैव प्रबलत्वाच्च । नचैवमाश्वला- यनोक्तानाम ग्रहणमस्तु माऽस्तु यासां कामांचित्तथाऽपि पाठस्तु स्वशाखारीत्यैव भवत्विति वाच्यम् । एतस्य मन्त्रपाठस्यात्र सावकाशत्वेनाविधानानुरोधेन तत्पाठस्यैव ग्रहीतुमुचितत्वात् । सवितृदेवताविषयकयाज्यायाः स्वशाखायाममावेन तदुक्तयाज्यान- हणं तदनुरोधेन तदुक्तानामेव चाऽऽश्वलायनपाठस्यैव ग्रहीतुमुचितत्वात् । विना निर्वा- हाम्रभवेनैतस्या ग्रहण इतरासामपि तच्छाखागतानामेव प्रहर्ण प्रकरणनियमितत्वात् । शाखापठितमन्त्रनिर्वाहासमवेनाऽऽनदीनामेवात्र ग्रहणात् । एताभ्यामिष्ट्रोपांशुयाजधर्मे- 1 क. "दिविधा ।