पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढ़विरचितं श्रौतसूत्रं-- [.७: सप्तमप्रश्वे:-

चतुर्ग्रहीतान्याज्यानि गृह्णाति यद्यनूयाजा न भवन्ति ।

प्रथमगणस्य प्रयाजार्थत्वात्तमेव गृह्णाति । द्वितीयगणस्य त्वन्यानार्थत्वान्न त गृह्णाति भन्याजाभावपक्षे । भनूयाजसत्त्वे तु तमपि गृह्णातीत्यर्थः । चतुर्गृहीतमेवो- पभूति यद्यनूयाजा न भवन्तीत्येवं वक्तव्यं तावतवाष्टगृहीतव्यावृत्तौ चतुर्ग्रहीतान्या. ग्यानि गृह्णातीत्येवं वचनं प्राकृतं पाक्षिक पञ्चगृहीतं व्यावर्तयितुम् । यद्यन्याना न मवन्तीति वचनमेतद्वचनाभावेऽन्याजसत्त्वेऽपि उपभूति चतुगृहीतमेव स्यान्नाष्टगृहीत. मिति तव्यावर्तयितुम् । आज्यपदग्रहणेनेदं ज्ञाप्यते पदार्थामावाधीन एव विशेषो निर्वप- णोत्तरं नत्वपूर्वकृतो विशेष इति । तेनैतदुत्तरं प्राकृतं सर्व तन्त्रं भवति ।

षड्ढोत्रा प्रायणीयमासादयति ।

चसमिति शेषः । तस्याः प्रायणीयया कल्पो व्याख्यात इति वक्ष्यमाणसूत्रानुदय- नीयायां चरोरासादने षड्ढोतुः प्राप्तिः स्यात्तां वारयितुं प्रायणीयमिति वचनम् । अहो- मार्थत्वादग्रहोऽस्वाहाकारः षड्ढोता । अत्र सूर्य ते चक्षुरित्येव षड्ढोता नतु वाग्यो. तेति प्रायश्चित्ती बाघोतेति श्रुतौ सूत्रे च प्रायश्चित्तीति श्रवणात्तस्य प्रायश्चित्त एकोपयोगात् ।

सर्वमिध्ममादधाति सर्वमौपभृतꣳ समानयते यद्यनूयाजा न भवन्ति ।

सर्वमौपभृतं समानयतेऽन्यानाभावपक्षे । अनूयाजसत्त्वे तु तदर्थं द्वितीयगणस्य गृहीतत्वान्न सर्वस्यौपभृतस्य समानयनम् । अनूयाजसमिधं नावशेषयति औपभृतमाज्यं च | अनूयानाभावादिति भावः । सर्वमिध्ममादधातीतिवचनं प्रतिसामिधेनि वेतिप्राकृत. पक्षान्तरनिवृत्त्यर्थम् । सर्वमौपभूत समानयत इतिवचनं प्रयाजार्थीज्यस्यैकप्रयत्ने. नैवाऽऽनयनं विधातुम् । एतेन ज्ञायते पशुबन्धे चातुर्मास्येषु च सोमे च विगृह्य विगृ. दैवाऽऽनयनमिति ।

आज्यभागाꣳश्चतुरो यजति पथ्याꣳ स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं पश्चात्सवितारमुत्तरतोऽदितिं मध्ये हविषा स्थालीं निष्कासं मेक्षणं च निदधाति ।

आज्य भागो येषां त आज्यमागा आज्यहविष इत्यर्थः । तांश्चतुरो यनति । कथ- मित्याकाङ्क्षायां पश्या स्वस्तिमित्यादि । हविषा चरुणेत्यर्थः । आज्यभागाश्चतुरो यजतीति सामान्यप्रतिज्ञा । उत्तरत्र चतुर्णा संकीर्तनादेव चतुष्वे सिद्ध चतुरो यजती- त्यत्र चतुर्महणं चतुर्णामेको गणो गणत्वाइब्धयः स्थादब्धो भूयासं पाप्मानं दभेयमि- त्यहेन चतुर्णामन्त एवानुमन्त्रणं भवतीतिज्ञापनार्थम् । पथ्या स्वस्तिमित्यादि सवितार-