पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२द्वि पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । दर्मास्तरणपात्रप्रक्षालने तु भवत एव । तयोरङ्गत्वेनाव्यवधायकत्वात् । स्थाली लोकप्र. सिद्धा त कपालानां स्याने कपालानामतिदेशप्राप्तानां चरुषाकासमर्थानां स्थान तत्प्रयो- जन उद्देश्य पात्रप्रयोगकाले प्रयुनक्ति । उत्तरसंस्कारानपि तुल्यान्कपालवदित्यर्थोऽन्य- स्मिंश्च द्रव्य इति सूत्र उदाहत एव । चरुकस्पान्व्याख्यास्यामः स्थाली कपालानार स्थाने प्रयुनतीत्यादिनैवात्र सिद्धरत्र पुनर्वचनमपूर्वत्वेन कपालधर्माणामप्राप्तिः स्याचा पारयितुम् । स्पाली कपालानार स्थाने प्रयुनक्तीतीतरचरुधर्मप्रदर्शनार्थम् ।

निर्वपणकालेऽदित्यै प्रायणीयं चरुं निर्वपति पयसि श्रपयति ।

प्रकृष्टमयनै गमनं यज्ञं प्रति यज्ञेन सह संबन्ध इति यावत् । तत्प्रायणं तदहतीति प्रायणीयः । प्रधानस्य दूरत्वेऽपीत आरम्प प्रधानकालपर्यन्तं वर्तमानत्वमेवात्र प्रकर्षः। तत्र प्रधानकालवर्तमानत्वं निष्कासद्वारा । अयधातोगत्यर्षकत्वेऽपि प्रकृते संबन्धार्थ- कत्वं सौ क्रियते । दृष्ट ह्यन्यत्र घातूनामनेकार्थत्वम् । निर्वपणकाल इति वचनं पवित्र- करणादिसूचनार्थम् । अन्यथाऽपूर्वत्वेनाप्राप्तिः स्यात् । प्रायणीयमिति ब्राह्मणन्याषि- ख्यासयेति द्रष्टव्यम् । पयति प्रणीतावत्प्रणीते पयसि नतु वत्सापाकरणादिभिधर्मरुत्पा. दिते पयसि । तथाच नवमाध्याये चतुर्थपादे जैमिना-प्रदानदर्शनं श्रपणे तद्धर्म मोजनार्थत्वात्संसर्गाच मधूदकवत् । अधर्म विप्रदानात्प्रणीता विधानादतुल्यत्वादसंसर्ग इति । आदित्यः प्रायणीयः पयति चरित्यत्र परोदेवतासंवन्धस्य पयसश्चरुसंबन्धस्य च विधौ वाक्यभेदापत्तेर्द्रव्यद्वयविशिष्टदेवतासंबन्धविधिः। आधारस्वं तु पयसः सह- श्रपणादसिद्धमिति प्राप्ते पयस्यादित्यश्वरुरित्यधिकरणद्रव्योमयविशिष्टदेवतासंवन्ध- विधौ वाक्यभेदाभावात्पयसो न प्रदेयत्वम् । अतो न वत्सापाकरणादिमिः पयः संबध्यते किंतु प्रणीताधमरेवेति सिद्धान्तः । सूत्रार्थस्तु-श्रपणे सहश्रपणे प्रदानमपि सह दृश्यते चरोः पयसा सह त्यज्यमानत्वानुमवात् । अतस्तद्धर्म तस्य प्रदेयस्य धर्मा- यस्मिंस्तथाभूतं भोजनार्थत्वाद्यागार्थस्वान्मधूदकवत्संसर्गाचित्रष्टिवरिति पूर्वसूत्रार्थः । उत्तरसूत्रार्थस्तु-अधर्म न विद्यन्ते धर्माः प्रदेयधर्मा यस्य तदधर्म । मधू. दकदृष्टान्तवैलक्षण्यद्योतनाय तुशब्दः । अप्रदानात्प्रदानाभावात् । दधि मधु घृतमापो धानास्तसंसृष्टमितिवदत्र सह श्रपणं नास्ति उभयोरत्र समप्रधानत्वामावात् । तर्हि पयसो विधानं किमर्थमिति चेदित्यत आह-प्रणीताईं. विधानादिति । अतश्वरुवरप्र. पमानिर्देशो नास्ति किंतु सप्तमीनिर्देशः । सप्तम्या घाऽऽधारमतत्वम् । अत एवातुश्य- स्वादित्युक्तम् । अतो न प्रदेयधर्मा इति । असंसर्गः, मध्दकवत्संसर्गो न मवति । तुल्यव्यसंसर्गों न ति कित्वापिकः संसर्ग इति । यजुरुत्पूते वा अपयति । - क. स. ग. वमप्र ।