पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-१५० पटलः] गोपीनाथभट्टकृतज्योत्स्नाव्याख्यासमेतम् । ६०५ च्छेदनाद्यष्टाश्रिकरणान्ता एवाग्नेरिवाऽऽधानादयो नतु प्रोक्षणाअनादयोऽपि । ते तु संमार्गादिषदुत्पन्ने यूपे संस्काराधायकाः । तदेवं व्यवस्थायामपि ये तावदुत्पादकास्तेषां कर्मकालभिन्नकालत्वेनागृह्यमाणविशेषत्वादेव वन्त्रत्वं यूपवत् । ये तु प्रोक्षणादय उत्पनयपसंस्कारकास्तेषामपकर्षकवचनामावेन कर्मकाल एवानुष्ठेयत्वेन गृह्यमाणविशे- पत्वेऽपि आतिथ्यावहिःप्रोक्षणन्यायेनं यूपव्यक्तरेकत्वात्तत्र कृतानां प्रोक्षणादीनां प्रसके. नोपकारकत्वोपपत्तेस्तेषामपि नाऽऽवृत्तिः । केचित्तु तक्षणादिसंस्कारसंग्रहार्थं यूपं कर्तुं खदिरं छिनत्तीति पदद्वयाध्याहारं स्वी कुर्वन्ति । तन्न । तदपेक्षया लक्षणाया लघु. स्वात् । एकादशाध्याये तृतीयपादे तस्य न्यायस्य मूलभूतसूत्रेऽपि नैमिनेः संस्कारा- स्त्वावर्तेरन्नर्थकालत्वात् । संस्कारास्तक्षणादयो यूपसंस्काराः । तुशब्दो यूपश्चाकर्मकाल. स्वादितिपूर्वाधिकरणतोऽन परीत्यद्योतनाय । यूपस्यार्थः प्रयोजनं प्रधानीभूतं पशुबन्ध- ,नरूपं तत्कालत्वादावर्तेरनित्यर्थः । अयं पूर्वसूत्रार्थः। तत्कालः संस्कारकोलः पशुबन्ध नरूपप्रयोजनीभूतप्रधानकालस्तु यूपसंबद्ध कर्मत्वात्तस्य यूपसंबद्ध कर्मणः क्रतुधर्मविधा- नात् , दीक्षासु यूपं छिन्नत्तीतिदीक्षादिवसरूपाधिकरणककतुप्रयुक्तो धर्मः । अमेन पशुबन्धनकालिकसंस्कारकरणं व्यावर्तते । सर्वार्थानां साधारणानां तक्षणादिसंस्काराणा, वाशब्दोऽवधारणे वचनादन्यकालत्वमे(?)तस्कालस्तु यूपकर्मत्वात्तस्य ऋतुधर्मविधाना. सर्वार्थानां वा वचनादन्यकालत्वं सकृन्मानं च दर्शयतीति चेति द्वितीयसूत्रार्थः । दीक्षासू यूपं मिनोतीतिश्रुतिदक्षादिवसकाले सकृदेव मान संस्काराणामपि दीक्षादि- यसकालत्वं दर्शयतीति तृतीयसूत्रार्थः (१) । तत्कालस्तु यूयकर्मत्वात्तस्य ऋतुधर्मविधा- नात्सर्वार्थानां वा वचनादन्यकालत्वम् । सकृन्मानं च दर्शयति । अर्थः प्रयोजनं पशु- बन्धनरूपं यूपस्य पशुबन्धनरूपकालत्वे संस्काराणामावृत्ति पेत् , तदेव नास्ति तस्य दीक्षा- कालवादिति सूत्रार्थः(१)। यूपच्छेदनकाल एव व्यामोहनिवृत्त्यर्थं नाशापहारनिवृत्त्यर्थ च स्वरोरुपादानं कर्तव्यमित्यगृह्यमाणविशेषत्वातन्त्र स्वरुः । अत एव संस्थिते सोमे प्र प्रस्तर हरति जुहोति स्वरुमित्यन्ते प्रतिपत्तिविधानमपि संगच्छते । सोमे प्र प्रस्तरं हरतीति श्रुतौ प्रस्तरं प्रहरतीत्यन्वयः । श्रुतिवादुपसर्गक्रिययोमध्ये पदान्तरं न विरुध्यते । नचायमनूबन्ध्याङ्गभूतस्य कालविधिः । न्यायेन स्वतन्त्रत्वावगती संकोचे प्रमाणामा- 'चात् । अत एव यत्र न्यायमेव भेदावगतियथा प्रस्तरे तत्र संकोच इष्ट एन । इदं जैमिनिनाऽपि एकादशाध्याये तृतीयपाद स्वरूत्तत्रापवर्गः स्यादस्वकालत्वादित्यनेन सूत्रेणोक्तम् । अस्वकालत्वात् , न विद्यते स्वस्मै कालो यस्य सोऽस्वकालतस्य भाव- स्तत्वं तस्माद्यूपवदोक्षादिनात्मकः कालः स्वार्थ विहितो नास्ति । अतोऽस्वकालत्वं 7 १ख. म. वालाः सं। २ ख. ग. 'कालाः एस. ग, घ । ७३