पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्याषाढविरचितं श्रौतसूत्र-. [ ७ सप्तमनश्ने- त्तिरूपेऽनुवादप्रयोनने संभवति आकाङ्क्षापूरणमात्रार्थकत्वकरूपनाया अगतिकाया अन्याय्यत्वात् ।

अग्नीषोमीयसवनीययोरनूबन्ध्यायाश्च ।। ३ ।।

समानो यूपः स्वरुराहवनीयो हृदयशूलश्च ।

अग्नीषोमो देवता यस्य पशोः सोऽग्नीषोमीयः। सवने सुत्यायां भवः पशुः सवनीयः । प्रातःसवने वायागः, माध्यंदिने सक्ने छिद्रापिधायिपुरोडाशयागः, सृतीयसवनेs- याग इति मवति सवनीयत्वम् । एतानि प्रधानहवींषि । वपा पुरोडाशोऽङ्गानि हवी. पात्याश्वलायनः । अग्नीषोमीयश्च सवनीयश्चेति द्वंद्वः । अनुबन्ध्याऽनबन्ध्याख्यः पशुः । अनु प्रधानानन्तरं बध्यत इत्यनूबन्ध्या तत्संज्ञकस्य पशोश्च दीनि समानानि अभिः नानि भवन्तीत्यर्थः । वशाऽन् बन्ध्या सो इति श्रुतावावन्तताया एव दर्शनासूत्रकृताऽपि तथैव निर्देशः कृतः । अग्नीषोमीयसवनीययोरेव समासेन निर्देशोऽनुबन्ध्यातोऽनयो- व्यकृतं लक्षण्यमस्तीति । तेनानूबन्ध्यायां गोपशुनियमवदनयो!नियमो न भवति किंतु च्छागोऽपि पक्षेऽनयोरिति । एतेषां पशूनां यूपादयश्चत्वारः साधारणा भवन्ति । सोमप्रकरणे विधानात्रयाणामयित्वादग्नीषोमायसवनीयानूबन्ध्याख्यकर्मकालेऽनु. स्पत्त्याऽमुष्येत्यवधारणाभावाच्च । एकादशाध्याये तृतीयपार उक्त जैमिनिना यूपश्चा- कर्मकालत्वादितिसूत्रेण । सूत्रार्थस्तु दीक्षादिवसानां दीक्षासु यूपं छिनत्तीत्यनेन यूपच्छे. दनाधिकरणत्वेन विहितानां ज्योतिष्टोमापूर्वप्रयुक्तानां साधारण्यात्सर्वपशुसाधारण्य यूपस्येति । यूपश्चेत्यनन्तरं तत्रमिति शेषः । कर्मणः पाशुककर्मणः काल एव कालो यस्य सस्य भावस्तत्त्वम् । न कर्मकालत्वमकर्मकालत्वं कर्मकालत्वाभावस्तस्मादित्यर्थः । दीक्षादिवसात्मके काले हि पाशुककर्मकालसंबद्धत्वाभाव एवास्ति तस्य ज्योतिष्टोमक- मकालसंबद्धत्वात्, दीक्षायाश्च साधारण्यात्तदिवसकर्तव्यस्य यूपस्य सर्वपशुप्ताधारण्यं युक्तम् । दीक्षाकालत्वं हि न देक्षापूर्वप्रयुक्तं तदुपस्थापकानुष्ठानसादेश्याभावात् । अपि तु प्रकरणान्ज्योतिष्टोमापूर्वप्रयुक्तं सत्तस्मिन्साक्षानिवेशायोगात्तदङ्गभूतपशुद्वारा तदीययूपे निविशते । तदङ्गभूतत्वं च सर्वेषामविशिष्टमिति सर्वार्थत्वसिद्धिः । वस्तुतो देस एवोपदेशेऽपि सबनीयादावपि पाक्षिकाग्नीषोमीयातिदेशेन तत्प्राप्तिसंभवात्कालतन्त्र- त्वादेव यूपतन्त्रत्वम् । एतेनैकस्मिन्नपि काले यूपत्रयापत्तिः परिहता भवति । यूपतन्त्र- स्वात्तत्संस्काराणां जोषणतक्षणादीनामपि तन्त्रत्वम् । नब दीक्षासु यूपं छिनत्तीत्यनेन च्छेदनमात्रस्यैवापकर्षविधानाजोषणतक्षणादीनामग्नीषोमीयकाल एव करणेनानुष्ठानता देश्यात्तन्मात्रार्थत्वप्रतीतेगुबमाणविशेषत्वेन तदपवर्गेऽपवर्गादावृत्तिरिति वाच्यम् । यूपच्छेदनोद्देशे विशिष्टाद्देशापत्तेः । छेदनमात्रोद्देशेऽतिप्रसङ्गाधूपोद्देशेनैव कालविधिः । छिनत्तिस्तु तदुत्पादकसंस्कारमात्रोपलक्षणम् । तदुत्पादकाश्च संस्कारा यूपाहुत्याअङ्गक-