पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सप्तमप्रश्न- ६०० सत्याषाढविरचितं श्रौतसूत्रं- कृष्णाजिनस्य शय्याऽऽसनमाच्छादनं च प्रतिषिद्धमिति । लोमतो लोमवति प्रदेश इत्यर्थः । नित्यवृत्तिर्यानमानसूत्रे स्पष्टो भविष्यति दीक्षणीयाप्रभृतीयं वृत्तिरित्यादिना । अत उर्वमितिवचनमावेदनोत्तरमेव कृष्णाजिनव्यवच्छेदनिमित्तकमभिमन्त्रणं न पूर्व- मिति गमयति । पूर्वत्र व्यवच्छेदेऽनाज्ञातत्रयजप एवेति । नित्यवृत्तावितिवचनं समाप्ता- यामप्यवान्तरदीक्षायामेतदाऽवभृथादनुवर्तत एवेत्येतदर्थम् ।

अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति पुरादयमधिवृक्षसूर्ये च व्रतप्रदः संप्रेष्यति ।

उत्तरेणाऽऽहवनीयं तिष्ठन्सप्रैषमाहानीज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छेति बौधायनः । अग्नोनिति बहुवचनात्सर्वाननीन् । सम्यावसथ्यसत्त्वे तावपि । औपासनस्य न श्रौतसंबन्धाभावात् । एतेन गार्हपत्यदक्षिणान्योरेव व्रतनपण- न रूपप्रयोजनसत्त्वात्प्रज्वलनमिति शङ्का परास्ता । ज्योतिष्मतः प्रज्वलितान्कुर्वित्यर्थः । दीक्षा संजाता यस्य स दीक्षितः । दीक्षाशब्दार्थः प्रागेवोक्तः । दीक्ष मौण्डयेज्योपन- यननियमवतादेशेष्विति धातुसूत्रादपि नियमविशेषपर एव दीक्षाशब्दः । उदयात्पु- रेति पुरोदयम् । पुराशब्दः पुरोर्थक उदयात्पूर्वमित्यर्थः । वृक्षानधिकृत्य वर्तते सूर्योs. धिवृक्षसूर्यः । सूर्यशब्देन लक्षणया तश्मय उच्यन्ते । औषे कुरुतेति बहुवचनं परि- कस्विजामन्यतमप्राप्त्यर्थम् । व्रतप्रद इति सामान्योक्त्याऽवhणां मध्ये यः कश्चन जतप्रदाता । यो व्रतप्रदः स एव संप्रेषकर्ता । पुरोदयमधिवृक्षसूर्ये घेतिक्रमश्रवणा- प्रथमदिने न श्रेषः । याजमानसूत्रेऽपि वक्ष्यति-तदहदीक्षितो रात्रि नागर्ति न त भवति नक्षत्रं दृष्ट्वा तूष्णीमेव वार्च विसृजते यौन व्रतप्रदः संप्रेष्यति तस्मिन्काले वाचं यच्छतीति । अस्मिन्सूत्रे व्रताभावस्योक्तत्वेन प्रैषाभावोऽपि सिद्ध एव । अग्नी- अभ्योतिष्मतः कुरुतेति आहवनीयविषये ज्योतिष्मत्करणस्यादृष्टार्थत्वेनेतरयोरप्यन्यो- ज्योतिष्मत्करणस्याप्यदृष्टार्थतव । व्रतपणरूपप्रयोजनसिद्धिः प्रसङ्गतः । तथाच ज्योतिष्मत्करणविषयकप्रैषो भवत्येवेति यद्यपि प्राप्तं तथाऽपि पुरोदयमधिवृक्षसूर्ये चेतिक्रमश्नवणादग्नीज्योतिष्मतः कुरुतेत्येतावन्मात्रौषोऽपि न भवतीति हृदयम् ।

उदितेऽस्तमिते च व्रतं दोहयति वत्सस्यैकꣳ स्तनमवशेष्य ।

अवशेष्य दोहयतीत्यन्वयः । ब्रतमित्येकवचन द्विवचनार्थकम् । नचैकस्या एवं गोदहिन निष्पन्नं पय उभयोर्बतमेकवचनादिति वाच्यम् । या यजमानस्य व्रतधुक्ता- माशिरे बुहत या पत्न्यास्तां दधिग्रहायेत्यत्र औषे पत्नीव्रतार्थ पृथगोविहितत्वादेत- कल्पनाया असंभवात् । यजमानस्य पत्न्याश्चेति शेषः । वत्सस्य तत्तगोवत्सस्य तस्वास्तस्या गोरेकमेकं स्तनमवशेष्येत्यर्थः । वत्सस्येति चतुर्थ्यर्थे पष्ठी वत्सार्थमित्यर्थः । उदित उदयं प्राप्तेऽस्तमितेऽस्तमदर्शनं प्राप्ते सूर्ये सति व्रतं दोहयतीत्यर्थः । दोग्नेति