पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१० पटलः ] गोपीनाथमट्टकृतज्योत्स्नाव्याख्यासमेतम् । ५९९

देवाञ्जनमगन्यक्षस्ततो मा यज्ञस्याऽऽशीरागच्छतु गन्धर्वाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु पितॄञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छत्वप ओषधीर्वनस्पतीञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु पञ्चजनाञ्जनमगन्यज्ञस्ततो मा यज्ञस्याऽऽशीरागच्छतु वर्धतां भूतिर्दध्ना घृतेन मुञ्चतु यज्ञो यज्ञपतिमꣳहसो भूपतये स्वाहेत्यभिमन्त्रयते यद्यन्यत्र कृष्णाजिनादासीत नित्यवृत्तावत ऊर्ध्वम् ।

पश्चैते मन्त्रा एतेषामन्यतमेनाभिमन्त्रणम् । अवशिष्टा विकल्पार्थाः । समुच्चयो वा कृष्णानिनास्तरणमत्रवत् । विकल्पपक्षे वर्धतां भूतिरित्यादि सर्वेष्वनुषञ्जनीयम् । समुच्चयपक्षे न । अप ओषधर्विनस्पतीनित्येक एव मन्त्रः, नतु सानुषशास्त्रयो मन्त्राः । अन्यथा देवाअनमगन्यज्ञ इत्येकत्रैव पाठेन गन्धर्वानित्याविष्वनुषङ्गः सिध्यत्येव पुनर्गन्धर्वान्पितन्पश्चननानित्येतेषु पाठो व्यर्थः स्यात् । अतो देवानित्येतन्मन्नव्यतिरि- तेषु गन्धर्वाम्पितॄन्पञ्चजनानित्येतेषु पाठोऽवादिषु त्रिषु प्रत्येकमनुषङ्गच्यावृत्त्यर्थ एवेति द्रुष्टव्यम् । अध्वर्युकर्तृकमिदं यजमानाभिमन्त्रणम् । न च मन्त्रलिङ्गाविरोधाधनमानक- तृकमेव स्वसंस्कारार्थमात्माप्रेषयदिति वाच्यम् । मन्त्रलिङ्गविरोधस्यैवाभावात् । तथाहि देवान्देवान्प्रति अगन्यज्ञस्ततस्तेभ्य इति ततः । जनशब्देन यजमान एवं गृह्यते । देवसकाशायनमानं प्रति आगच्छतु । आगतस्य यज्ञस्याऽऽशोः, आ ईषदपि यजमानादन्यत्र मा गच्छत्वित्यर्थः । निष्फलो यज्ञो मा मवत्विति तात्पर्याः । अथवा देवान्प्रति अगन्यज्ञस्ततो मां स आगच्छतु मत्प्रवर्तितो यज्ञो मां प्रति देवेम्प आगच्छतु । यज्ञसंबन्धिन्याशौर्जनं यजमानं प्रत्यागच्छतु इत्यर्थः । एवमितरेषामपि । देवादिम्यः सकाशान्मां प्रत्यागतेन यज्ञेन मे भूतिरैश्वर्य वर्धतां स च यज्ञो दध्ना धृतेन च वर्धता दना घृतेन च प्रवर्धितो यज्ञो यज्ञपति यजमानमहसः पापान्मुञ्चतु । भूपतये भूपतिनामकाय देवाय स्वाहा सुष्टु एतत्सर्व कथयामीत्यर्थः । स्वाहेत्येतत्सु माहेति वा स्वा वागाहेति वा वं प्राहेति वा स्वाहृतं हविर्नुहोतीति वेति निरुक्तकृता स्वाहाशब्दस्य चत्वारोऽर्थाः कृताः । निपातानामनेकार्थत्वादित्येतदाशयः । तत्र प्रथ- मार्थानुसारेण सुष्टु एतत्सर्व कथयामीत्यर्थों वर्णितः । एतेन यजमानाभिमन्त्रणस्याध्वर्यु- कर्तृकता मन्त्रलिङ्गविरोधात्कथमिति शङ्का निरस्ता । अभिमन्त्रयते यनमानमित्येव शेषो मन्त्रलिङ्गान्नतु कृष्णाजिनमिति । यद्यन्यत्र कृष्णाजिनादासीत तदा देवाञ्जनम- गन्नित्यमिमन्त्रयत इत्यन्वयः । यदीत्यनेनाभिमन्त्रगस्य नैमित्तिकत्वं प्रदर्शितं भवति । कृष्णाजिनादन्यत्राऽऽसीत कृष्णाजिनं परित्यज्याऽऽसीत | आसनं शयनोपलक्षणम् । नान्यत्र कृष्णाजिनादास्ते शेते वेति सूत्रात् । अत्र मानवसूत्रे विशेषः-लोमतः