पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(७-८ प्रश्नाः) Satyaashada Srautasutra.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ut । ८९६ सत्यापाढबिरचित श्रौतसूत्र- [शिष्टमप्रो- सहेन्द्राग्ने ग्रहं गृह्णातीत्यर्थः । शस्त्रस्योत्तरत्र विधानादेव शस्त्रवत्वे सिद्ध इदं वचनं 'ग्रहग्रहणकाले ज्ञानावश्यकत्वार्थम् । एतदभावे यजुभ्रषप्रायश्चित्तं भूतः स्वाहेति दोक्षणाग्नौ होतव्यम् ।

तꣳ सादायित्वाऽग्रेण होतारं प्राङ्मुख उपविश्येडा देवहूरिति शस्त्रमुपाकरोति । ।

तं ग्रहम् । मन्त्रपठनमेव शनोपाकरणम् ।

यत्रैनꣳ होताऽभ्याह्वयते तस्मिन्काले शोꣳसामोद इवेति प्रत्याह्वयते शोꣳसामोद इवोथामोद इवेति वा ।

यत्र यस्मिन्काल इत्यर्थः । उत्तरत्र तस्मिन्काल इत्युपादानात् । एनमध्वर्यु होता शोसायोमित्यभिमुखीकरणा) यस्मिन्काल आहृयते तस्मिन्नेवारे शोमामोद इवेति होतारं प्रत्याश्यतेऽध्वर्युः । प्रत्याहानं प्रत्युत्तरदानम् । शातामोद इवोथामोद इवेति विशष्टं वा प्रत्याह्वानवाक्यम् ।

उत्तिष्ठन्प्रदक्षिणं पर्यावर्तमानः प्रथमं प्रतिगरं प्रतिगृह्णात्यभिमुखोऽत ऊर्ध्वस्तिष्ठन्प्रह्वो वा ।

उत्तिष्ठन्नितिशत्रन्तेन प्रदक्षिणं पर्यावर्तमान इति शानजन्तेन चोत्थानप्रभृतिप्रद- क्षिणपर्यावर्तनसतकालता प्रथमप्रतिगरस्य भवतीत्यर्थः । अत ऊर्ध्वमभिमुखस्तिष्ठन्प्रहो वा+सर्व प्रतिगरा वक्तव्या इत्यर्थः ।

सर्वेषु विरामेषु प्रणवे च ।

'सपै ये विरामास्तेषु । सर्वग्रहणादृग्गता निगगताश्चैते सर्वे गृह्यन्ते अणवे चा- श्वलायनसूत्रप्रसिद्धा एव सर्वे :प्रतिगरा गृह्यन्न इत्यर्थः । तच्चाऽऽश्वलायनसूत्रमित्यम्- अनभिहिकृत्य शासावोमित्यु राहूय तूष्णीं शंसं शक्षेनुपांश प्रणवमसंतन्वन्नेष आहायः प्रातःप्तवने शस्त्रादिषु पर्याय प्रभृतीनां च सर्वत्र चान्तःशस्त्रं तेन चोपतानः शस्त्रस्वरः प्रतिगर ओथामोद दुवेति शोभामोद इवे न्याह वे प्लुतादिः प्रणवेऽप्लादिरव- साने प्रणवे प्रणव आहावोत्तरेऽवसाने च प्रणवान्तो वा यत्र यत्र लान्तःशस्त्रं प्रणवे- भावस्यति प्रणवान्त एव तत्र प्रतिगरः शस्त्रान्ते तु प्रणव इति । शस्त्रस्य स्वर इव स्वरो यस्य स शस्त्रस्वरः । उत्तरपदलोपोऽत्र 'द्रष्टव्यः । स शस्त्रस्वर इत्यर्थः सवनस्वरस्याविधेयत्वादन्योऽपि योऽनुबाह्मणपक्षे निष्कवल्यस्य विशिष्ट स्वरों विहितः । शस्त्रस्य तस्य प्रारणार्थ वननम् । ओधामोद होत्ययं प्रतिगरसंज्ञो भवति शस्त्रस्वरश्व म तिष्ठमिति: पाठी युक्तः । अस्य वाक्यस्य पूर्वनाक्येणासंबद्ध बादत्र किंचित्रुटितं स्यादिति प्रतिभाति ।